________________
षष्ठः परिच्छेदः
महात्मानो वधप्राप्ता अपि वध्याः स्यूरत्र नो । एकाङ्को देव एवात्र नेतेत्याहुः, परे पुनः ॥ २४९ ॥ दिव्यस्त्रीहेतुकं युद्धं, नायकाः पडितीतरे ।
मिश्र ख्याताख्यातम् । अन्यः प्रतिनायकः। पताकानायकास्तु नायकप्रतिनायकयोमिलिना दश । नायको मृगवदलभ्यां नायिकामत्र ईहते वान्छ: तीतीहामृगः।
यथा-कुसुमशेखरविजयादिः। अथाङ्क:उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः ॥ २५० ॥
अत्र = ईहामृगे, महात्मानः = महाऽनुभावाः, वधप्राप्ता अपि-वधयोग्या अपि; नो वध्याः स्युः = वयोग्या न स्युरिति भावः । परमतं प्रदर्शयति-पुनः, परे = मन्ये आचार्याः, अयम् ईहामृगः, एकाऽङ्कः = एकोऽङ्को यस्मिन् सः, अत्र = अस्मिन्नीहामृगे, देवः = सुरः, एव नेता = नायकः, इति = एवम्, आहुः = कथयन्ति ॥ २४९ ।।
इतरे = अन्ये च, दिव्यस्त्रीहेतुकं दिव्यस्त्री (देवी) हेतुः ( कारणम् ) यस्मिस्तत; तादृशं युद्धं = संग्राम इति, तथा नायकः = नेतारः, षट् इति, आहुः ।
विवणोति-मिषमिति । नायकः = नेता, मृगवत् = हरिणवत्, अलभ्यां - दुष्प्राप्यां, नायिकामत्र ईहते वाञ्छनीति ईहामृग इति निर्वचनम् । तादृशो नायकोऽस्य (रूपकविक्षेपस्य ) अस्तीति ईहामृगः, "अर्शआदिभ्योऽच्" इत्यच्प्रत्ययः ।
अळू लक्षयति - उत्सष्टिका इति। अङ्कस्यैव केषांचिन्मते नामान्तरमुत्सृष्टिकाऽङ्कः, स एकाङ्कः, एकोऽङ्को यस्मिन् सः । अत्र-अङ्के, प्राकृताः साधारणाः; नराः = बहवो भनुष्याः, नेतारः = नायका भवन्ति ॥ २५० ।।
इसमें महात्मा लोग वधके योग्य होनेपर भी वध्य नहीं होते हैं । कुछ विद्वान्लोग इसमें एक ही अङ्क तथा देवता ही नायक होता है ऐसा कहते हैं ।। २४९ ।।
अन्य विद्वान्लोग इसमें दिव्य स्त्रीके लिए युद्ध होता है और नायक छः होते हैं. ऐसा मानते हैं ।
नायक मृगके समान अलम्य ( दुष्प्राप्य ) नायिकाकी ईहा ( इच्छा ) करता है. अतः इसे "ईहामृग" कहते हैं । जैसे कुसुमशेखरविजय आदि ।
प्रक-"उत्सृष्टिकाऽङ्क" वा "अङ्क" में एक ही अङ्क रहता है। उसमें साधारण बहुतसे मनुष्य नायक होते हैं ।। २५० ॥