________________
साहित्यदर्पणे
नरदिव्यावनियमौ नायकप्रतिनायको। ख्याती धीरोद्धतावन्यो गूढमावादयुक्तकृत् ।। २४६ ।। दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः । शृङ्गाराभासमप्यस्य किश्चित्किश्चित्प्रदर्शयेत् ।। २४७ ।। पताकानायका दिव्या मावापि दशाद्धताः । युद्धमानीय संरम्भं परं व्याज्ञान्निवर्तते ।। २४८ ।।
नायकप्रतिनायको, नरदिव्यो = मनुष्यदेवी, अनियमो = नियमरहितो, यथासंख्यानियमहिताविति भावः, नरो नायकः, दिव्यः ( देवः ) प्रतिनायकः, अथवा दिव्यः ( देवः ) नायकः, नरः प्रतिनायको भवतामिति शेषः । तादृशो तो धीरोद्धती, ख्याती प्रथिसी । अन्यः = अपरः, प्रतिनायक इति भावः। गूढभावात् = अप्रकाशभावात; अयुक्तकृत = अनुचित कार्यकारकः ।। २४६ ॥
____ अनिच्छन्ती अवाञ्छन्ती, रमणमिति शेषः। दिव्यस्त्रियं = देवीम्, अपहारादिना = अपहरणादिना, आदिपदाच्छलेन च; इच्छतः = वाञ्छतः, रमणमिति शेषः । अस्य-प्रतिनायकस्य, किञ्चित्किञ्चिद, शृङ्गाराभासम् अपि, प्रदर्शयेत्-प्रदर्शितं कुर्यात् । रूपककार इति शेषः ।। २४७ ।।
दिव्या:-देवाः, मां वाऽपि = मनुष्या वाऽपि, उद्धताः = अविनीताः, दश, पताकानायकाः="व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते ।" ( ४२५ पृ० ) इत्युक्त. लक्षणलक्षिताग अर्थप्रकृतिभेदरूपायाः पताकाया नायकाः,. नायकप्रतिनायकयोमिलिता इति शेषाः स्युः । परं = शत्ररूपं प्रतिनायक, संरम्भं क्रोधम्, आनीय = प्रापय्य; स्थितस्य नायकस्य, व्याजात-छलात अन्यकार्यस्येति शेषः, युद्धं निवर्तते ।। २४८ ।।
इसमें नायक और प्रतिनायक मनुष्य और देवता यथासंख्य नियमसे रहित होते हैं वर्षात् कहीं नायक मनुष्य और प्रतिनायक देवता तथा कहीं नायक देवता और प्रतिनायक मनुष्य होते हैं। वैसे वे नायक और प्रतिनायक धीरोद्धतके रूपमें कहे गये हैं, प्रतिनायक गुप्तरूपसे अनुचित कार्य करता है ।। २४६ ॥
वे ( नायक और प्रतिनायक) रमणकी इच्छा न करनेवाली दिव्य स्त्रीकी अरहार बादिसे इच्छा करते हैं, प्रतिनायकको कुछ कुछ शृङ्गाराभासका भी प्रदर्शन करना चाहिए ॥ २४७ ॥
इसमें देवता और मनुष्य उद्धत नायक और प्रविनायकको मिलाकर दश पताकानायक होते हैं । शत्रुरूप प्रतिनायकको क्रुद्ध बनाकर रहे हुए नायकके छलसे युद्ध टल जाता है ॥ २४ ॥