Book Title: Raspaddhati Tatha Loh Sarvasvam Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma Publisher: Jawaji Trikamji Acharya View full book textPage 3
________________ निवेदनम् । रसपद्धतिनामायं ग्रन्थो भिषग्वरेण बिन्दुना विरचित इति, अस्य प्रन्थस्य प्रथमश्लोकादेव प्रतीयते। ग्रन्थेऽस्मिन् रससंस्काराः, धातूपधातुमहारसोपरसरओपरत्नादीनां परिचयनिर्णयसंशोधनमारणादयः, अन्यग्रन्थेष्वनुपलभ्यमाना बहवो रसयोगाश्चातिविशदतया सहृदयमनोहरैर्वि विधवृत्तोपनिबद्धैः श्लोकैरुपवर्णिताः सन्ति । ग्रन्थस्यास्योपरि वैद्यवरमहादेवविरचिता व्याख्याऽप्युपलब्धाऽस्माभिः। सोऽयं महादेवो बिन्दुतनय इति बिकानेरराजकीयपुस्तकालयाल्लब्धे पुस्तके समाप्तौ लिखितं दृश्यते । टीकायां चात्र बहवो विषया मूलेऽनुक्ता प्रन्थान्तरादुदृत्योपनिबद्धाः सन्ति । सोऽयं महादेवो महाराष्ट्रदेशनिवासीति ज्ञायते, दशमश्लोकव्याख्यायां 'क्ष्माशिग्रुः महाराष्ट्रदेशे शिग्रुमूलान्येवातितीक्ष्णानि भवन्ति, तस्य नाम शिग्रमूलमिति प्रसिद्धिः' इति व्याख्यानात्, अन्यत्र मेषजद्रव्याणां महाराष्ट्रभाषाप्रसिद्धपर्यायनामदानाच्च । आयुर्वेदप्रकाशे रसकामधेनौ च बहूनि पद्यानि रसपद्धतेरुद्धतानि दृश्यन्ते । अतोऽयं ग्रन्थस्ततः प्राचीन इत्यनुमीयते । ग्रन्थस्यास्य संशोधनार्थमादर्शपुस्तकत्रयमुपलब्धम् । प्रथमं नासिकक्षेत्रस्थानामस्मत्परमसुहृदां वैद्यवयकृष्णशास्त्री देवधर इत्येतेषां सकाशाल्लब्धं, द्वितीयं पुण्यपत्तनस्थभाण्डारकरप्राच्यसंशोधनालयालब्धं, तृतीयं बिकानेरराजकीयपुस्तकालयात्प्राप्त, पुस्तकत्रयमप्येतदशुद्धिबहुलं मध्ये मध्ये खण्डितपाठं च। तदेतपुस्तकत्रयसहायेन ग्रन्थस्यास्य संशोधने यथामति कृतो यत्नः । तथाऽपि भ्रमप्रमादादिवशाज्जातं स्खलनमुपलभ्येत चेत् सुधीभिः संशोधनीयम् । रसपद्धतेः संशोधनावसरे एव मुंबईनगरस्थरॉयलएशियाटिकसोसायटीपुस्तकालयात् श्रीसुरेश्वरविरचितलोहसर्वखस्याप्येकं पुस्तकं प्रायः शुद्ध प्राप्तमस्माभिः। ग्रन्थेऽस्मिन् सुवर्ण-लोहाभ्रसत्त्व-तामेति चतुर्विधलोहानां शोधनं मारणं प्रयोगाश्चातिविशदतयोपवर्णिताः सन्ति। ग्रन्थान्तरेष्वनुक्ता बहवो लोहयोगाश्चात्रोक्ताः सन्ति । अतोऽयं ग्रन्थो भिषजां चिकित्सायामुपयुक्तो भविष्यतीति रसपद्धतेः सहैवायमपि प्रसिद्धिं नीत इति भिषजामनुचरस्य यादवशर्मणः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 144