Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECASIA वाचोऽस्या उदिते तच्चे, मातभॊक्ष्येऽद्य नान्यथा । एवमाग्रहमाधाया,-वतस्थे तनयोऽन्यदा ॥ १९ ॥ मातोचे मम वाचोऽस्या, स्तचं पृच्छाधुनाऽऽगतम् । उद्याने ज्ञानपाथोधि, श्रुतसागरसाधुपम् ।। २० ॥ तत्पार्श्वे सोऽगमद् याव,-च्छ्रीसूरिः स्वयमेव हि । बभाषे तावदेतं त्वं, सन्देहं प्रष्टुमागमः ॥२१॥ सिद्धचेटकमातङ्ग,-श्रावकः स्थावराभिधः । सौभाग्यपुरवास्तव्यः, सन्देहं तेऽपनेष्यति ॥२२॥ अहो ! आश्चर्यमाश्चर्य, यज्ज्ञानाम्भोधिरप्यसौ । प्रेषयामास मातङ्ग,-पार्श्वे मां संशयच्छिदे ॥ २३ ॥ तद्धतुनेह केनापि, भाव्यं कार्यमदो मम । बुधादेशाः कृता नृणां, शुभ(भो)दर्का भवन्ति यत् ॥ २४ ॥ विचिन्त्यैव(वं स) सौभाग्य,-पुरं प्रस्थितवान् द्रुतम् । तृष्णाः प्राप्य पीयूषं, किमाकण्ठं ने पात्यलम् ? ॥२५॥ ॥त्रिभिर्विशेषकम् ।। सुरेन्द्रपुरसौभाग्य, कमलाकेलिसमनः । श्रीसौभाग्यपुरस्याप, धर्मसारो बहिः क्रमात् ॥ २६ ॥ विरसीकृतपीयूष,-रसान् चारुरसाम्भसः । सरोव्रातान् महल्लो(हालो)ल,-हस्तैराह्वयतः किल ॥ २७ ॥ १. शुभ(भो)दाः, कोऽर्थः ? आदेशकरणकाले शुभफलप्रदा भवन्ति । २. अपितु न रक्षत्येव ("न पिबत्यलम्" इतिपाठः संभवति)। ३. 'विरसीकृत ' इत्यादित्रिभिः श्लोकैः सम्बन्धः । धर्मः की० पश्यन् कर्म सार(सरो)वातान्-सरोवरसमूहान् । की० चारुरसानि अम्भांसि-जलानि येषु तान् । आयतः । कैः ? महाकल्लोलहस्तैः । तथा पश्यन् कर्म आरामसञ्चयान् । की० गृहीतं नन्दनवनस्यामान For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40