Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org हृदि सकिता माता, सद्यः श्यामीकृतानना । अकस्मात्किमभूद्वत्स !, यन्मूर्च्छा भवतोऽभवत् ॥ ३२४ ॥ ऊचे पुत्रोऽधुना मात, -रभूजातिस्मृतिर्मम । निजं साधूदितं पूर्व, साक्षाद्वीक्षे तथा भवम् ॥ ३२५ ॥ धर्मसारं ततोsवादीत्, पुण्यसारः प्रभो ! मम । भर्व (व) सर्पविषं दीक्षा, - सुधादानात्तिरस्कुरु || ३२६ ॥ मुनिरूचेऽथ भो भद्रे, दृशस्तेऽपि मनोरथः । विश्वविश्वत्रयीरामा, -कृष्टिकार्मणसंनिभः || ३२७ ॥ श्री साधम्मिक वात्सल्या, -र्जितं द्वादशवार्षिकम् । कर्म भोगफलं तेऽस्ति, तेन नाद्यापि योग्यता ॥ ३२८ ॥ दानशीलतपोभावान्, हितानोजस्विनो भवान् । भज येन प्रमादारि, -र्न प्रहर्त्तु प्रभुर्भवेत् ॥ ३२९ ॥ खेल द्वैराग्यकल्लोल, - मालामानससागराः । ॥ ३३० ॥ धर्मसारोऽपि सद्धर्म्म, - देशनाज्योत्स्नया नरान् । एवमाह्लाद्य शीतांशु, - वद्विजज्ञेऽन्यतस्ततः ॥ ३३१ ॥ पुण्यसारो दशाक्षेत्र्यां, धनबीज महर्निशम् । भावे वर्षति पर्जन्ये, -ऽनन्तं कर्तुं निचिक्षिपे ॥ ३३२ ॥ अयन्तसोदरं पुत्र - त्रयमस्य क्रमादभूत् । पुण्यानुबन्ध (न्धि ) पुण्यं हि चिन्तामणिसहोदरम् ॥ ३३३ ॥ पुनर्द्वादशवा (वर्षा) न्ते, केवलज्ञानभासुरः । धर्मसारमुनीशानः, सौभाग्यपुरमागमत् ॥ ३३४ ॥ चतुर्द्धा सङ्घवात्सल्यं, विधाय विधिना मुनेः । सिद्ध्याकर्षणमन्त्रं तु, पुण्यसारो व्रतं ललौ ॥ ३३५ ॥ अष्टावप्येष कर्माणि, दुष्टानि चरटानि च (निव) । तपसा चन्द्रहासेन, शितेनाहत्य हेलया ॥ ३३६ ॥ पञ्चानन्तकमाणिक्य, - पूर्ण द्वीपं शिवाभिधम् । जगाम व्रतपोतेन, पुण्यसारो विशारदः ॥ ३३७ ॥ युग्मम् ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 35 36 37 38 39 40