Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
पुण्यसार
कथानकम् ।
|| 6 ||
॥
www.kobatirth.org
कर्णा पृथुभोगावं, द्विजिह्वा वक्रगामिनी । कैस्य संपद्यते (से) नैव, सर्पिणीव भयङ्करा १ ।। १२६ ।। अम्भस्यम्भोनिधेर्मातुं, चुलकैश्चिरजीविभिः । शक्यते सुखतो नूनं, न दोषास्तव कैश्चन ।। १२७ ।। इत्यादि दुर्वचः क्षिवा, मृदू शून्यौ करावुभौ । नितान्तं कुट्टयन् वक्षो, दध्य (ध्यि) वानित्यसौ ततः ॥ १२८ ॥ यदेवं गृहकुद्दाला, खादिका मम गेहिनी । तन्नूनं दिवसैः स्तोकै, -र्नष्टो मेऽर्थोऽखिलोऽपि हि ।। १२९ ॥ एषा कान्ताछलात्य, - वर्त्तिनी मम वैरिणी । यन्मां निर्नामकं कर्तुं प्रवृत्तैव महर्निशम् ॥ १३० ॥ चाण्डालादपि निखिंशा, मम नूनं नितम्बिनी । खगघाताधिकां पीडां यन्मेऽचैनार्थखादने || १३१ ॥ गतसर्वस्ववच्चित्ते, ध्यात्वैवं कृपणो बहु । विच्छायो मुखमाच्छाद्य गत्वान्तर्गृहमस्वपत् ॥ १३२ ॥ दुःश्रवं दुर्वचस्तादृक्, श्रुत्वापि श्रेष्ठिनी पुनः । वात्याभिर्मेरुचूलेव, न किञ्चिद्विकृतिं ययौ ॥ १३३ ॥ भर्त्तरि प्रतिकूलेऽपि, सत्यो भक्तिं वितन्वते । शर्करा भक्ष्यमाणाऽपि विरसत्वं समेति किम् १ ।। १३४ ॥ तादृगूद्रव्यव्ययात्यन्त, - परिपीडितचेतसः । कृपणस्यास्य संघट्टो, हृदयेऽजनि तत्क्षणात् ।। १३५ ।।
१. न विद्यते कर्णौ यस्या सा । २. पृथु पृथुलं भोगं शरीरं यस्याः सा पृथुभोगा । ३. कस्य त्वं की० भयङ्करा न संपद्यसे । ४. सद्मनि वर्त्तत एवंशीला सद्मवर्त्तिनी । ५. न अवैत् न जानाति स्म एषा मम पीडां अर्थखादने । ६. सत्यो - महासत्यः ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७ ॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40