Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandir
इत्यादिभावनाचिन्ता-मणिं हृदि दधत्तमः । भोज्यं तेऽदापर्य चारु, कृपणाद्दे प्रमोदतः ॥ २०१॥ पुण्यसार.
तब मातुलवात्सल्यं, तथाऽहं विदधे तदा । यथा निष्ठ्योऽपि शुद्धेव, चतुष्कोट्यधिपोऽभवम् ॥ २०२॥ कथानकम्।
द्रम्मपञ्चकदानेन, चण्डालीतनयोऽधुना । त्वया यो रक्षितो भग्न्या,-धनसारो वरोऽसकौ ।। २०३ ॥ राजचौराग्निपानीय,-देवदैत्यादिकैरपि । कथञ्चिदपि यच्छक्य, नापकर्तुं मनागपि ॥ २०४ ॥ अपूर्वराक्षसी लक्ष्मीः , पुण्यं तदपि हेलया । पश्यतोहरवत्सर्व, हरते पश्यतामपि ॥ २०५॥ युग्मम् ॥ भारमेव बलीवर्दो, बालीवर्दिकसंगतः। परीभावं पराप्नोति, निष्पुण्यश्च पदे पदे ॥ २०६ ॥ सरोऽपि मानसं शुष्य,-त्यवकेशी सुरद्रुमः । बष्का कामदुधाऽपि स्या, दपुण्यस्यान्तिके यतः ॥ २०७॥ नवभोज्यादिभोगेन, निनन् पुण्यं परार्जितम् । नवं चानर्जयन् धर्मे, प्रेमाद्यस्त्वं च मातुल ! ॥२०८॥ जनन्या भाष्यसे धर्मे, बोधाय प्रतिवासरम् । जेमन् पर्युषितं नित्यं, वत्स ! दुःखी भविष्यसि ॥२०९॥ युग्मम् ॥
भवदुर्वासभा(भो)गीन्द्र,-विषं स्फेटयितुं ततः । श्रुतसागरसूरीशा,-न्तिके सन्मन्त्रशेवधेः ।। २१०॥
१. ते तव (तुभ्यं)भोज्यं चारु-प्रधानं अदापयं, क ! कृपणहट्टे । २. न शक्यं कर्म-यत् पुण्यं, किं कर्तु-हत्तुं कैः ! राजचौरादिभिः, तत्पुण्यं लक्ष्मी राक्षसी, की चौरवत् हरते, इति ज्ञेयम् । ३. परामोति कर्ता-नरः, की० निष्पुण्यः, कर्म-पराभवं, यथा प्रामोति, दा कर्ता-बलीवर्दः, की० बालदीयुक्तः, कर्म-भारम् । ४. स्यात् , कर्ता-सुरद्रुः, की० अवकेशी-विफलः । तथा कामधेनुः, की० बष्का | विशूका दुग्धरहिता । ५. प्रमाद्यन् , कोऽर्थः ! प्रमादं कुर्वन् हे मातुल !। ६. हे मातुल ! जनन्या सूरेः पार्थे संप्रेषितः । त्वम् ।।
स्
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40