Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तद्धिग्धिम् मे कुलं पूर्व-कर्मदुवैरिणोऽङ्गजम् । येनार्हत्साधुदानादे,-र्वये चिन्तामणेरिव ॥ १९१॥ यद्वा पादं गले दास्ये, दुष्कर्मप्रतिपन्थिनः । मम पुण्योदयो मित्र,-मधुना समुदैत्तमाम् ।। १९२ ॥ मम गेहाङ्गणं कल्प-दुमः स्वयमवाच(त)रत् । स्वर्गवी रम्भ(स्म)माणा च, प्रविवेशातिहर्पतः ॥ १९३ ॥ नवाप्युदघटन्ताशु, निधानानि ममौकसि । समधर्मेडगागाद्यत् , प्रेषितो मुनिपुङ्गवः ॥१९४ ।। युग्मम् ।। एतच्चित्ताम्बुजे हंसा,-विव सर्वज्ञसद्गुरू । खेलतो निर्मलौ नित्यं, सद्गती (सङ्गतौ) चारुदर्शनौ ॥ १९५ ॥ अङ्गीकुर्वश्च सम्यक्त्वं, श्राद्धो वक्ति गुरुं प्रति । धनधान्यादिभिर्युक्तो, मयाऽऽत्मा युष्मदर्पितः॥ १९६ ॥ या काचित्क्रियते भक्ति,-स्तव साधर्मिक प्रति | आराध्येते तया देव,-गुरू एव ध्रुवं बुधैः ।।१९७ ॥ गालीकलहपैशून्य, मत्सराचं विधीयते । समधर्मणि यत्तेना,-शातना देवसाधुषु ॥ १९८ ।। तत्साधर्मिकवात्सल्यं, शल्यमान्तरविद्विषाम् । धर्मसारस्य निर्माय, कृतार्थ विदधे स्वकम् ॥ १९९ ॥ इदं दर्शनजीवातु,-रिदं दर्शनजीवितम् । इदं दर्शनकल्पद्रु(ट्ठः), यद्दानं समधर्मणे ॥ २० ॥ १. तत् मे कुलं, की० धिग् धिग् , की० अङ्गजं-पुत्रं, कस्य ? पूर्वदुष्कर्मवैरिणः, येन वञ्च्ये अहं कस्मात् ! अर्हत्साधुदानादेः, की० चिन्तामणेरिव इति ज्ञेयम् । २. मम पुण्योदयः की० मित्रं समुदैत्तमां, कोऽर्थः ! उदयं प्राप्तः । ३. स्वर्गवी-कामधेनुः । ४. उदघटन्त, कोऽर्थः ? प्रकटानि बभूवुः नव निधानानि । ५. समधर्मा ईदृक्त्वं यत् आगतः इत्यर्थः । ६. खेलतः, कर्तारौ-सर्वज्ञगुरू, की० हंसौ, की० चारुदर्शनौ, की० सद्भती, क ! एतच्चित्ताम्बुजे । ७. जीवातुः-कोऽर्थः ! जीवनौषधम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40