Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra श्री पुण्यसार कथानकम् । ॥ १२ ॥ www.kobatirth.org अविसंवादिनं नित्यं, जन्मान्तरसहायन (क) म् । महोदयनि (वि) धातारं तत्सेवध्वममुं बुधाः ! ॥ २२२ ॥ वाटिका चम्पकेनेव, सरोवरमिवाम्बुना । पद्मया विश्रुता यद्व, - त्सेना सुस्वामिना यथा ॥ २२३ ॥ प्रासादो देवबिम्बेन यथा वृष्ट्येव वारिदः । जीवेनेव तनुर्भाति, धर्मेण मनुजस्तथा ॥ २२४ ॥ युग्मम् || प्राप्तराज्यरमो नूनं, भिक्षायै स यियांसति । हस्तिमल्लं समारूढो, - प्यारुरुक्षति रासभम् ।। २२५ ।। स्वाधीनामृतकुम्भोऽपि, क्षारवारि पिपासति । संप्राप्तजैनधर्मोऽपि भोगेच्छा विदधाति यः ॥ २२६ ॥ युग्मम् ॥ निष्ठिताशेषगेहार्थो, योऽत्र धम्मं चिकीर्षति । नखशुच्याम्बु सोऽम्भोधे, - र्मिंत्वा निर्मातुं वाञ्छितम् ॥ २२७ ॥ धर्मव द्विविधः साधु-श्राद्धभेदेन भाषितः । क्षान्त्याद्यो दशधा तत्रा, दिमः संमत उत्तमः || २२८ ॥ संपूर्णः संयमः प्रौढ - वित्कैरविणीहिमम् । सद्य आकर्षणोपायो, - ऽपवर्गस्वर्गसंपदाम् ॥ २२९ ॥ प्रभूतान्यपि पापानि, द्रुतं नश्यन्ति संयमात् । गरुडस्येव वातेन, भुजङ्गा भीषणा अपि ॥ २३० ॥ इत्थं संयममत्तवारणशिरो-ऽध्यारुह्य योऽष्टादश, - श्रीशीलाङ्गसहस्र वीरतिलकान्वीतोऽष्टकर्मद्विषः । १. पद्मया=लक्ष्या । २. गन्तुमिच्छति भिक्षार्थम् । ३. निर्मातु करोतु, कर्त्ता स नरः, कर्म = वाञ्छितं = मनोवाञ्छितं, किं कृत्वा ! मित्वा, कर्म–अम्बु=जलं, कस्य ? अम्भोधेः, कया ? नखशुक्तया इत्यर्थः । ४. विपदेव कुमुदिनी, तत्र महाहिमम् । ५ तस्य शिवे उत्सवः स्यात् । पराभवियनरः, कर्म - अष्टकर्मद्विषः । की० निर्वाणमार्गविरोधिनः, अध्यारुद्य कर्म-संयमगजशिरः इत्यर्थः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १२ ॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40