Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
पुण्यसारकथानकम्।
॥ ६॥
www.kobatirth.org
असन्तोऽपि गुणा यस्यां सत्यां वृष्टाविवाङ्कुराः । स्युर्यान्त्यां यान्ति सन्तोऽपि, त्याज्या सा स्यात्कथं रमा १ ॥ १०५ ॥ शाल्यादिवेचनादेतद्, गुणरत्नैकरोहणम् । धनं न स्फेटये मूढे !, भवत्या वचनादहम् ॥ १०६ ॥ भूयो वक्ष्यसि चेत्किश्चि तदा भक्ष्यामि ते मुखम् । इत्युक्त्वा कृपणः क्रुद्धो, मौनमास्थाय तस्थिवान् ॥ १०७॥ स्थालीर्बुध्नाननाऽजस्रं, श्रवद्भिर्बाष्पसञ्चयैः । पङ्किलां कुर्वती भूमिं चिन्तयामास सा ततः ॥ १०८ ॥ अन्यस्मिन् सदने कर्म कुर्वती कर्मकर्यपि । यादृशं लभते भोज्यं, तादृशं नोत्सवेऽपि मे ।। १०९ ॥ रथ्यादिपतितैः शीर्ण, - जीर्णैरनुपकारिभिः । चीरैः कन्थे विधायाऽस्मि, संवृणोम्यङ्गमात्मनः ॥ ११० ॥ भूषा आददिरेऽनेन, लब्धाः पितृगृहादपि । साधण्यसूचिकाः काच, मणिका अपि नो करे ॥ १११ ॥ अक्षता नैव पश्चापि, दत्ता देवगृहे मया । दग्धापि बट्टिका भिक्षोर्न कस्यापि कदाचन ॥ ११२ ॥ चातुर्मासिकमुख्येऽपि, कस्मिंश्चिन्न सुपर्वणि । काणं कपर्दकमपि, धर्मे वेचयितुं लभे ।। ११३ ॥ धर्मार्थ कामशून्याया, मालत्या इव कानने । निखिलं जीवितं जन्म, बभ्रुव विफलं मम ॥ ११४ ॥ कार्यमस्य मयाऽऽतिथ्यं, निजभ्रातुर्यथा तथा । इत्यालोच्याथ साऽन्याट्टे, जगृहे शालिमुख्यकम् ॥
११५ ॥
१. असन्तोऽपि गुणाः स्युः, यस्यां रमायां सत्यां । तथा रमायां सत्यां (यान्त्यां ) सन्तोऽपि गुणा यान्ति सा रमा= लक्ष्मीः त्याज्या यथा दृष्टौ सत्यां भौसौ (भूमी) अङ्कुराः स्युः । २ पितृगृहलब्धानि आभरणानि अनेन मम भर्त्रा गृहीतानि । ३. साविधवत्व (सधवात्व) काः । सूचिः ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६ ॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40