Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सहर्ष स्थावरोऽथैत - मभ्यधान्मधुराक्षरम् । भुक्त्वाऽऽगच्छेर्यथा सद्योऽ, पेनये तव संशयम् ।। ५५ ।। आगत्य थावरेणाथ, भोजनं कृपणापणे । यथेच्छं दापितं चारु, धर्मसाराय सादरम् ।। ५६ ।। कृपणेनापि तदवा, पाकार्थद्रव्यलोभतः । स्वगृहे प्रैष्यसौ लोभा, -भिभूतः किं न कारयेत् ॥ ५७ ॥ धर्ममा विशन् गेहे, श्रेष्ठिन्यैक्ष्योपलक्ष्य च । ऊचे त्वं (त्वं मे ) पितृभ्रातृ-पुत्रो भ्राता ततो मम ॥ ५८ ॥ वारिधेरिव चन्द्रेण त्वयाऽऽनन्दोऽद्य मेऽजनि । भोक्तव्यं मामकं भ्रात, -भजनं स्नेहतोऽधुना ॥ ५९ ॥ अभ्यधाद्धर्म्मसारोऽथ, भग्निः (भगिनि ) ! साधूदितं त्वया । परं स्थावरतो लब्ध, - मद्य भोक्ष्यस्मि ( भोक्ष्यामि ) भोजनम् ॥ ६० ॥
जगाद श्रेष्ठिनी भ्रात, -र्न युक्तं भवता कृतम् । आत्तं चण्डालदत्तं यद्, भोज्यं लज्जेऽस्मि सर्वतः ॥ ६१ ॥ धर्मसारोऽभ्यधाद् भग्नि १, मम साधम्मिकोsसकौ । अस्य पार्श्वे च कार्येणा - हमागामिति हेतुना ॥ ६२ ॥ मयाssi भोज्यमेतस्य चण्डालस्याप्यतः परम् । यदि त्वं भाषसे किञ्चित्तदा मे शपथोऽस्ति ते ||३३|| युग्मम् || भ्रातुर्विज्ञाय निर्बन्धं, दुर्भेदं श्रेष्ठिनी ततः । भोज्यं पक्त्वा तदेवैतं, भोजयामास भक्तितः ॥ ६४ ॥ भुक्त्वा यावद् व्रजत्येष, स्थावरीयं गृहं प्रति । अमृणोत्तावदाक्रन्दं तत्रातिविरसस्वरम् ॥ ६५ ॥ १. स्फेटयामि । २. आतं गृहीतम् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40