SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सहर्ष स्थावरोऽथैत - मभ्यधान्मधुराक्षरम् । भुक्त्वाऽऽगच्छेर्यथा सद्योऽ, पेनये तव संशयम् ।। ५५ ।। आगत्य थावरेणाथ, भोजनं कृपणापणे । यथेच्छं दापितं चारु, धर्मसाराय सादरम् ।। ५६ ।। कृपणेनापि तदवा, पाकार्थद्रव्यलोभतः । स्वगृहे प्रैष्यसौ लोभा, -भिभूतः किं न कारयेत् ॥ ५७ ॥ धर्ममा विशन् गेहे, श्रेष्ठिन्यैक्ष्योपलक्ष्य च । ऊचे त्वं (त्वं मे ) पितृभ्रातृ-पुत्रो भ्राता ततो मम ॥ ५८ ॥ वारिधेरिव चन्द्रेण त्वयाऽऽनन्दोऽद्य मेऽजनि । भोक्तव्यं मामकं भ्रात, -भजनं स्नेहतोऽधुना ॥ ५९ ॥ अभ्यधाद्धर्म्मसारोऽथ, भग्निः (भगिनि ) ! साधूदितं त्वया । परं स्थावरतो लब्ध, - मद्य भोक्ष्यस्मि ( भोक्ष्यामि ) भोजनम् ॥ ६० ॥ जगाद श्रेष्ठिनी भ्रात, -र्न युक्तं भवता कृतम् । आत्तं चण्डालदत्तं यद्, भोज्यं लज्जेऽस्मि सर्वतः ॥ ६१ ॥ धर्मसारोऽभ्यधाद् भग्नि १, मम साधम्मिकोsसकौ । अस्य पार्श्वे च कार्येणा - हमागामिति हेतुना ॥ ६२ ॥ मयाssi भोज्यमेतस्य चण्डालस्याप्यतः परम् । यदि त्वं भाषसे किञ्चित्तदा मे शपथोऽस्ति ते ||३३|| युग्मम् || भ्रातुर्विज्ञाय निर्बन्धं, दुर्भेदं श्रेष्ठिनी ततः । भोज्यं पक्त्वा तदेवैतं, भोजयामास भक्तितः ॥ ६४ ॥ भुक्त्वा यावद् व्रजत्येष, स्थावरीयं गृहं प्रति । अमृणोत्तावदाक्रन्दं तत्रातिविरसस्वरम् ॥ ६५ ॥ १. स्फेटयामि । २. आतं गृहीतम् । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020586
Book TitlePunyasara Kathanakam
Original Sutra AuthorN/A
AuthorViveksamudra Gani
PublisherJindattsuri Gyanbhandar
Publication Year1945
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy