________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुण्यसारकथानकम्।
C%ESHOCIEOC
सोप्राक्षीनरमायान्तं, किमाक्रन्दोऽतिदुःश्रवः । तेनोचे स्थावरः कीर्ति,-शेषोऽभूच्छलतोऽधुना ॥ ६६ ।। वज्रेणेव हतोऽत्यन्तं, विच्छायवदनो हृदि । धर्मसारस्तदा दध्या,-वहो! हा ? मे रिपुर्विधिः ॥ ६७ ॥ दुष्कर्मदन्तिना वाञ्छा,-लता मे सकला अपि । कथं चूर्णीकृताः सद्यो, यत्नश्च विफलोऽभवत् ॥ ६८॥ विमना धर्मसारोऽथ, भग्नीमेत्येत्यभाषत । निजे यास्याम्यहं गेहे, विपन्नः स्थावरो यतः ॥ ६९ ॥ साश्रुः साऽभाषत भ्रात,-स्तिष्ठ श्वैस्तनवासरम् । तदा(वा)तिथ्यं विधायास्मि, हृष्टं स्वं विदधे यथा ॥ ७० ॥ किश्चात्र जिनचैत्यानि, साक्षाचिन्तामणीनिव । अनाराध्य कथं यासि, भ्रातनिष्पुण्यमौलिवत् ।। ७१ ॥ दन्तैमा॑त्वाङ्गुली यो,-प्यूचे सा योतदश्रुका । श्वस्तनं दिवसं भ्रात,-रव(त्र)स्थेयं यथा तथा ॥ ७२ ॥ कल्पायमानयामोऽपि, विमना अपि नै(नि)ष्प्रभः । गाढभनीवचोरश्मि, बद्धो भ्राताऽवतस्थिवान् ॥ ७३ ।। ततः प्रातर्द्वितीयेऽहि, श्रेष्ठिनी विपणौ स्वयम् । गत्वोचे श्रेष्ठिनं वाचा,श्योतन्त्येव सुधारसम् ॥ ७४ ॥
शालिदालिसुगन्धाज्य, प्रमुखं वस्तु देहि मे । यथा स्वभ्रातुरातिथ्यं, विदधे ते प्रसादतः ॥ ७५ ॥ १. विमनाः=भममनाः । २. सह अश्रुभिर्वर्तते साश्रुः । ३. प्रभातदिनम् । ४. सहर्षम् । ५. त्र्योतन्ति अश्रूणि यस्याः सा०।६. विंशतिकोटाकोटिसागरैः कृत्वा एकः कल्पः । तथा दशकोटाकोटिपल्योपमैः कृत्वा एकः सागरः । कल्पवत् आचरति कल्पायमानः, कोऽर्थः ! कल्पसंख्याप्रमाणो यामः पहरो यस्य सः।
CALC05%AC%ार
H ORROADS
॥४॥
CRE
For Private and Personal Use Only