SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री पुण्यसारकथानकम्। ॥ ३ ॥ www.kobatirth.org अद्य मे फलितं भाग्य, मद्योदैव सुदिनं मम । सानुकूलो विधिर्मेऽद्य यत्सधर्मेक्षितो भवान् ॥ ४६ ॥ पितृमात्रादिभिः प्राणी, संयुज्येत भवे भवे । अमितैः सुकृतैः किन्तु, सम्बन्धः समधर्मणा ।। ४७ ।। तज्ज्ञानं तद्धनं शक्तिः, सा कलाकौशलं च तत् । तत्र साधम्मिकस्यार्थे ऽधुना व्यापारयेऽस्मि यत् ॥ ४८ ॥ अद्य त्वं मेsतिद्वि (थि)र्भूयाः कार्या न प्रार्थनाऽन्यथा । किं कस्यापि हि कल्पद्रु - विफली कुरुतेऽर्थिनम् ॥ ४९ ॥ धर्म्मसारोऽथ तं स्माह, पेशलं भवतोदितम् । विरुद्धं निजजाते, -ऽदः कर्तुमुचितं कथम् ? ॥ ५० ॥ स्थावरोऽथाभ्यधाद् बन्धो !, जानानः श्रुतमार्हतम् । नास्मि जातिविरुद्धं ते, करिष्यामि कथञ्चन ॥ ५१ ॥ यत उक्तं कल्पे लोउत्तरंमि विठिया, न लोगनिवाहरुत्तिमिच्छति । लोगजढे परिहरओ, तित्थवि बुड्डी विवनो य ॥ ५२ ॥ अतोऽहं कृपणपिता, महाङ्के तव भोजनम् । दापयिष्ये न कार्यों मे, भावभङ्गस्त्वया पुनः ।। ५३ ।। भावभङ्गोsस्य भून्मेति, श्रेष्ठस्तद्वचोऽखिलम् । अमंस्त सत्तमा यस्मा - दाक्षिण्याम्भोधयो भृशम् ॥ ५४ ॥ १. समधर्मणा, कोऽर्थः ? तुल्यधर्मणा अत्रशब्दः । २. निजजातेः कोऽर्थः ? वणिग्जातेः अदः भोजनं विरुद्धं कर्तुं कथमुचितम् ? । ३. ' लोउत्तरंमि वि ठिया ' कोऽर्थः ? लोकोत्तरमार्गे, कोऽर्थः ? जैनमार्गे स्थिता नराः । न लोकबाह्यां युक्ति इच्छन्ति । लोकविरुद्धपरिहारकस्य नरस्य तीर्थवृद्धिर्भवति । तथा विशिष्टवर्णः । कोऽर्थः १ यशश्च भवति । ४. सत्पुरुषाः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ३ ॥
SR No.020586
Book TitlePunyasara Kathanakam
Original Sutra AuthorN/A
AuthorViveksamudra Gani
PublisherJindattsuri Gyanbhandar
Publication Year1945
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy