________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RASSACROGRAM
आत्तक्रयाणकद्रव्यं, याचमानैर्जनैः समम् । कलहायमानं दुर्वाग,-विसरैमर्मवेधिभिः ॥ ३६ ॥ नानास्थानकसंस्यूता,-तिशटितमलीमसम् । अोद्धाटपुतं छिद्रा,-कीर्ण बिभ्रतमंशुकम् ।। ३७ ॥ मा यासीदिति निर्मूल्य,-सुरत्नमिव यत्नतः । अर्द्धघृष्टं घुण्टपूगं, बध्नन्तं, वसनाचले ॥ ३८॥ विमुक्तं दानभोगाभ्यां, तद्धनत्वेन लोकतः । प्रसद्धिप्राप्तकृपण, पितामहान्यनासकम् ।। ३९ ।। श्रेष्ठिनं धनसाराख्यं, कस्मिंश्चिद् विपणावसौ । दुर्गन्धातिमलक्लिन्न,-शरीरं तावदेक्षत ॥ ४० ॥ दशभिः कुलकम् । पप्रच्छ धर्मसारस्तं, कुत्रास्ति स्थावराभिधः । मातङ्गः श्रावकः सिद्ध,-चेटकः सर्वतत्ववित् ॥४१॥ यद्वारे चिश्चिकावृक्षो, विद्यते निथ्यपाटके । सदनं स्थावरस्यौदो, ज्ञेयमित्यचिवानसौ ॥४२॥ धर्मसारो द्रुतं प्राप्तः, स्थावरस्य निकेतनम् । उक्त्वा स्वमावगीर्मुख्यं, वृत्तान्तं सर्वमात्मनः॥४३॥ जैगाद स्थावरतं मे, सन्देहं स्फोटयाञ्जसा । उदिते पद्मिनीबन्धौ, तमस्तिष्ठति किं क्वचित् ॥ ४४ ॥ युग्मम् ।। उद्यत्सर्वाङ्गरोमाश्चो, विकाँम्बुजलोचनः । सहर्षः स्थावरोऽवादी,-लब्धशेवधिनिःस्ववत् ॥ ४५ ॥
SARKAROSAECOM
१. जनैः की०? याचमानैः कर्म-गृहीतं क्रयाणकस्य द्रव्यम् । २. कलहं कुर्वन्तम् । ३. स्फटितम् । ४. अदः एतत्सदनम् । ५. जगाद धर्मसारः हे स्थावर ! इदं संदेहं स्फेटय । ६. उद्यन्ते(न्ति)सर्वाङ्गरोमाञ्चानि यस्यासौ उ०। ७. विकचः(चे) विकस्वरः(रे) अम्बुजवत्लोचने यस्य सः । ८. निर्द्रव्यवत् लब्धकोशः ।
For Private and Personal Use Only