Book Title: Panch Stotrani
Author(s): Dharmtilakvijay
Publisher: Smrutimandir Prakashan

Previous | Next

Page 93
________________ पुण्याब्धिप्रीतिदायी-चन्द्रपक्षे प्रीतिं हर्ष ददाति यच्छतीति प्रीतिदायी आनन्ददायकः पुण्यश्चासौ अब्धिश्च पुण्याब्धि: पवित्रसमुद्रः तस्मै पुण्याब्धये प्रीतिदायी पुण्याब्धिप्रीतिदायी, चन्द्रः खलु समुद्रं समुल्लासयतीति । पुण्यानामब्धिरिवेति पुण्याब्धि: तस्मै भविकजनाय प्रीतिदायी प्रीतिकरस्तथा, जिनौघ: भविकजनं सन्तोषतीत्यर्थः । (चन्द्रपक्षे) स्वीयगोभिः स्वीया: आत्मीया: गाव: किरणानि स्वीयगाव: ‘गोस्तत्पुरुषादट्' ७।३।१०५। इत्यनेन समासान्ताऽविधि: प्राप्त: किन्तु समासान्तविधिरनित्यः' इति न्यायात् नात्राट्, ताभिस्तथा स्वकिरणैरित्यर्थः, सान्द्राणि गाढानि तमांसि अन्धकाराणि ध्वंसमान: नाशयन् सन् स्वकिरणैः घनान्धकाराणि दूरीकृर्वन्नित्यर्थः, जिनौधपक्षे स्वीया: आत्मीया: गाव: वाण्य: ताभि: सान्द्राणि प्रबलानि तमांसि अज्ञानानि ध्वंसमानः समूलनाशं नाशयन् इत्यर्थः, सकलकुवलयोल्लासम् सकलानि समस्तानि तानि च तानि कुवलयानि कुमुदानि चन्द्रविकासिकुमुदानीति यावत्, सकलकुवलयानि तेषां य: उल्लास: विकसनं तं तथा उदिते चन्द्रे कुवलयानि विकाशित्वं प्राप्य उर्ध्वमुखीभवन्तीति woman ॥ पंच स्तोत्राणि ॥ ७८ ܝܚܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝ

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140