Book Title: Panch Stotrani
Author(s): Dharmtilakvijay
Publisher: Smrutimandir Prakashan
________________
भवत्याः गुणावलिगानतरङ्गिणाम्-गुणानामावलिः श्रेणि: गुणावलिः तस्या गानं आलापबद्धकीर्तनम् तस्य तरङ्गः उल्लासप्रकारा: ते सन्ति येषां ते गुणावलिगानतरङ्गिण: तेषां तथा भूतानां भविनां भव्यजीवानां शिवपदप्राप्तियोग्यानाम् भयं भीति: न भवति केषां भयमित्याह-द्विरदेति द्वौ रदौ दन्तौ यस्य स द्विरद: हस्ती केसरा:-शटा: सन्ति यस्य स: केसरी-सिंह: मारी रोगविशेष: भुजङम: भुजैर्गच्छतीति भुजङ्गम: सर्पः, असहन: न सहते परोत्कर्षमिति असहनः शत्रुः, तस्करः, चौरः, राजा, नृपः, रुग् रोगः इत्येतेषां द्वन्द्वः तेषां षष्ठीबहुवचने द्विरदकेसरिमारिभुजङ्गमासहनतस्कर-राजरुजाम् । एतावता , सरस्वती- सेवका अकुतोभया भवन्तीतिभावः, यद्यपि सरस्वत्या: विद्यादातृत्वस्यैव जनप्रसिद्धिः तथापि सभयस्य विद्याग्रहणाधिकारित्वाभावात् प्रतिबन्धकत्वाभावसम्पादनायेय-मुक्तिः ॥ ९ ॥ अधुना स्तुतिरहस्यं देव्या अनुपमप्रसादसाधनप्रकारं च दर्शयतिॐ ह्रीं क्लीं ब्ली तत: श्रीं तदनु हसकलहीं अथो ऐं नमोऽन्ते, लक्षं साक्षाज्जपेद्यः करसमविधिना सत्तपा ब्रह्मचारी ।
॥ पंच स्तोत्राणि ॥ १०८
Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140