Book Title: Panch Stotrani
Author(s): Dharmtilakvijay
Publisher: Smrutimandir Prakashan
________________
तया सुराः देवा: असुरा: दैत्या: सुरविपक्षीभूताः तद्विरुद्धप्रकृतिकत्वात् यक्षराक्षसभूतपिशाचादय: सुराश्च असुराश्च सुरासुरा: तेषामीश्वरा: शासनकर्तारः तेषां गण: संघात: तैः सुरासुरेश्वरगणैः अर्चिता पूजिता प्रायो जगति स्वशत्रुसन्मानितं न कोऽपि सन्मानयति तथापि एषा उभयैरचितेति तस्या जगद्विलक्षणमाहात्म्यमभिव्यक्तम्, दिवि दीव्यति क्रीडते इति देव: यदुक्तम्
“दीव्यति क्रीडते यस्माद्रोचते द्योतते दिवि । तस्माद्देव इति प्रोक्तः” इति तद्देवशब्दात् 'गौरादिभ्यो मुख्यान्डी:' ।२।४।११। ..
- इति स्त्रियां ङी: संस्तुतवैभवा संस्तुताः स्तुतिपथं प्रापिता: वैभवा: अणिमादय: समृद्धयो यस्याः सा संस्तुतवैभवा, द्वितीयपादे उक्तं यत् 'सुरासुरेश्वरगणैरभ्यर्चितेति' अर्चनं तु जलचन्दनाद्यैर्भवतीति तथारूपां तामाह मलयजेति मलयज: चन्दनम् तस्य तद्भवत्वात् तस्य आलेपेन अङ्गे शरीरे समुत्पन्नो यो रङ्गः राग: तस्य या द्युति: कान्ति: विद्यते यस्याः सा मलयजालेपाङरङद्युतिः, त्रैलोक्यसंजीवनी त्रैलोक्यं त्रयाणां लोकानां समाहार: त्रिलोकी तत: स्वार्थे ट्यण् त्रैलोक्यम् लोकत्रयम् स्वर्गमर्त्य
११५ अनुभूतसिद्धसारस्वतस्तवः
Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140