Book Title: Panch Stotrani
Author(s): Dharmtilakvijay
Publisher: Smrutimandir Prakashan

Previous | Next

Page 133
________________ डपीत्यभिव्यक्तं वचनेऽमृतत्वम्; यद्यप्यमृताभेदेनैव वचने माधुर्यस्य प्राप्तत्वात् पूर्वोक्तं मधुरैरिति विशेषणमनर्थकमिव प्रतिभाति तथापि येऽबुधजना अमृतं कीदृशं भवतीति न जानन्ते तान्निबोधाय अमृततोऽपि व्यक्तमाधुर्यस्य ख्यापनाय चेति न कोऽपि दोषः, नृपगणान् राजसमूहान् अपि किं पुन: प्राकृतजनान् स्फुटं प्रकटं यथा स्यात्तथा रञ्जयति विनोदयति स्वाभिमुखं करोति, मिष्टवचनप्रयोगेन सर्वजनप्रियो भवतीतिभाव: द्रुतविलम्बितम् छन्दः ।। १३ ॥ प्रशस्तिः । . . . चरमजिनपतीर्थे शासनाधीश्वराणां, प्रथितविजयश्रीणां प्राप्तसज्झानश्रीणाम् ।। परमगुरुगुरुणां नेमिसूरीश्वराणां,' जयति विमलाप्राज्ये, प्रौढस्याद्वादराज्ये ॥ १ ॥ मालिनी श्रीमदाचार्यवर्याणां, विजयामृतसूरिणाम् । प्रभावान्मुनिवर्यश्री-पुण्यविजयजिच्छिशुः ॥ २ ॥ धुरन्धरोमुनिर्नाम्ना, वृत्तिं शिशुहितां व्यधात् । अनुभूतसिद्धसारस्वतो शिरपुरेपुरे ॥ ३ ॥ विशेषकम्। मुनिनिधिनिधानेन्दु-मितेऽब्दे तैषमासके । चन्द्रेऽह्नि चन्दशालायां राकायां रचिता हिता ।। ४ ।। ॥ पंच स्तोत्राणि ॥ ११८

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140