Book Title: Panch Stotrani
Author(s): Dharmtilakvijay
Publisher: Smrutimandir Prakashan

Previous | Next

Page 126
________________ अनुक्रमेण नतु मध्ये विरम्य, य: जपेत् जपं कुर्यात् स जगच्चन्द्रिकाभां जगति भुवने प्रसरन्ती या चन्द्रचन्द्रिका तदाभां तत्तुल्यां त्वां भवन्तीं चन्द्रबिम्बात्-चन्द्रमसो मण्डलात्, निर्यान्तीम्-निर्गच्छन्तीं मनसा चेतसा कलयति साक्षात्करोति, समनस्केनेन्द्रियेण त्वां साक्षात्पश्यतीत्यर्थः, अत्यर्थं अतिशयं उपरोक्तजपानन्तरं विशेषमभिलाषुकेन, वह्निकुण्डे दशांशेन दशसहस्रेण लक्षदशांशो दशसहस्रस्तेन विहितघृतहुतिः कृतघृतहोम:, विद्वान् स्यात् अर्थात् विधिपूर्वकं वह्निकुण्डे घृतेनाहुतिं ददन् सन् य: लक्षदशांशं दशसहस्रं जपेत् स विद्वान् धीमान् स्यादचिरेण भवेदिति । सूक्तेऽस्मिन् स्रग्धरावृत्तम्-म्रभ्नैर्यानां त्रयेणत्रिमुनियतियुता स्रग्धरा-कीर्तितेयम् इति तल्लक्षणात् । . संप्रति मन्त्रमाहात्म्यं दर्शयन् भक्तं व्यापारान्तरात् विनिवारयन् मन्त्राभिमुखं करोतिरे रे लक्षणकाव्यनाटककथा-चम्पूसमालोकने, क्वायासं वितनोषि बालिश ! मुधा, किं नम्रवक्त्राम्बुजः। भक्त्याऽऽराधय मन्त्रराजमहसाऽनेनानिशं भारती, येन त्वं कवितावितानसविताऽद्वैतप्रबुद्धायसे ॥ ११ ॥ mmmmmmmmmmmmmm maxxxwaiinwwwwwwwwwwwwwwww १११ अनुभूतसिद्धसारस्वतस्तव:

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140