Book Title: Panch Stotrani
Author(s): Dharmtilakvijay
Publisher: Smrutimandir Prakashan
________________
निर्यान्ती चन्द्रबिम्बात्कलयति मनसा त्वां जगच्चन्द्रिकाभां, सोऽत्यर्थं वहिकुण्डे विहितघृतहुतिः स्याद्दशांशेन विद्वान् ॥१०॥
व्याख्या-ॐ इति-पूर्वं ॐ अवति रक्षति भयेभ्यः सर्वेभ्य: इति अव् धातौरौणादिकं ॐ इति सिद्धं रूपं एतावता रक्षकाक्षरस्यादौ नियोजनात् संपूर्णमन्त्रस्यापि रक्षणकतृत्वं सूचितम् हाँ हरते सर्वान् दोषान् इति पूर्ववदौणादिकम् क्लीं ब्ली -तत: तदनन्तरं श्री तत् तेषां न्यस्तानामेतेषां अनु पश्चात् हसकलही इत्येतेषां न्यास: अथो अनन्तरम् अन्ते प्रान्ते ऐं नमः इति बीजस्य न्यास: इति तन्निर्गत: संपूर्णमन्त्रश्चैवम्-“ॐ ह्रीं क्लीं ब्ली श्री हसकलहीं ऐं नमः” अमुं मन्त्रं यः कोऽपि सत्तपा: तपस्याशील: एतेनातपस्विनोऽधिकारविरह: ब्रह्मचारी ब्रह्मशास्त्रं आत्मध्यानं अथवा ब्रह्म-सप्तमो धातुः तं चरति रक्षतीति तथोक्त: अष्टाङ्गमैथुनविनिवृत्तो ब्रह्मचारीअष्टांगमैथुनं यथा
स्मरणं कीर्तनं केलि: प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ॥१॥ एतन्मैथुनमष्टांगं, प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्य-मेतदेवाष्टलक्षणम् ॥ २ ॥ इति
-
mmmm...aninniinwwwwwwwwwwwwwww १०८ अनुभूतसिद्धसारस्वतस्तवः
Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140