Book Title: Panch Stotrani
Author(s): Dharmtilakvijay
Publisher: Smrutimandir Prakashan

Previous | Next

Page 121
________________ विस्तृतशास्त्रविषयकप्रतिभावन्तः इति भाव:, जनानां लोकानां मनांसि चेतांसि हि निश्चयेन हरन्तितरां अतिशयेन गृह्णन्ति, निर्द्रव्या अपि तवानुभावात् स्ववचनमाहात्म्यात् सर्वानपि मोहयन्ति वशीकुर्वन्तीति भाव: । जनमनोहरणसामर्थ्यन्तु धनेऽस्ति तथापि तदभावेऽपि विद्वांसो जनमनांसि हरन्तीति कारणाभावेऽपि कार्योत्पतिर्वणितेति विभावनालंकारः - लक्षणन्तु ‘विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते' इति विश्वनाथः ॥ ७ ॥ करसरोरुहखेलनचञ्चला, तव विभाति परा जपमालिका । श्रुतपयोनिधिमध्यविकस्वरो-ज्ज्वलतरङ्गकलाग्रहसाग्रहा ॥८॥ व्याख्या करसरोरुहेति - हे देवि तव भवत्याः परा उत्कृष्टा जपमालिका जपाय ध्यानाय माला जपमाला एव जपमालिका स्वार्थे कः विभाति शोभते कथं सा उत्कृष्टा इत्यपेक्षायामाह - करेति - कर हस्तः स एव सरोरुहम् कमलम् तत्र खेलने क्रीडने चञ्चला चपला करसरोरुहखेलनचञ्चला भारतीदक्षिणहस्तस्थितेतिभावः यतश्च सा भारतीकरस्पर्शमापन्ना तत उत्कृष्टा, अपि च श्रुतेति श्रुतं शास्त्रश्रवणजनितं ज्ञानं तस्य पयोनिधिः समुद्रः तस्य मध्ये अन्तः विकस्वरः विकसित: उज्ज्वलः निर्मलः, यस्तरङ्गः वीचिः तस्य ॥ पंच स्तोत्राणि ॥ १०६

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140