Book Title: Panch Stotrani
Author(s): Dharmtilakvijay
Publisher: Smrutimandir Prakashan
________________
अधुना लक्ष्मीतोऽप्यधिकं महिमानमस्या दर्शयतिगतधना अपि हि त्वदनुग्रहात्, कलितकोमलवाक्यसुधोर्मयः ।
चकितबालकुरङ्गविलोचना, जनमनांसि हरन्तितरां नराः ॥ ७ ॥
व्याख्या
गतधना इति - गतधना: धनहीना अपि
"
“ माता निन्दति नाभिनन्दति पिता, भ्राता न संभाषते, भृत्यः कुप्यति नानुगच्छति सुतः, कान्ता च नालिङ्गते । अर्थप्रार्थनसंकया न कुरुतेऽप्यालपमात्रं सुहृत्, तस्माद्दव्यमुपार्जयाशु सुमते ! द्रव्येण सर्वे यशा: ” ॥ १ ॥ इत्येतादृशीं 'दशामनुभवाना अपि नरा: मानवाः त्वदनुग्रहात् तव प्रसादात् कलितेति - कोमलं मृदु यत् वाक्यं वचनं तत् कोमलवाक्यं तदेव सुधा तस्या उर्मयः तरङ्गः इति कोमलवाक्यसुधोर्मयः कलिताः सम्पादिताः तथोर्मयो यैस्ते कलितकोमलवाक्यसुधोर्मयः, तथा च चकितेतिकुंरङ्गो मृगविशेषः बालः शिशुः स चासौ बालकुरङ्गः चकितो विस्मितो बालकुरङ्गः चकितबालकुरङ्गः तस्य विलोचने इव विलोचने नेत्रे येषां ते चकितबालकुरङ्गविलोचना: दीर्घनयना इति शक्त्या, व्यञ्जनया तु
-
१०५ अनुभूतसिद्धसारस्वतस्तवः
Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140