SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अधुना लक्ष्मीतोऽप्यधिकं महिमानमस्या दर्शयतिगतधना अपि हि त्वदनुग्रहात्, कलितकोमलवाक्यसुधोर्मयः । चकितबालकुरङ्गविलोचना, जनमनांसि हरन्तितरां नराः ॥ ७ ॥ व्याख्या गतधना इति - गतधना: धनहीना अपि " “ माता निन्दति नाभिनन्दति पिता, भ्राता न संभाषते, भृत्यः कुप्यति नानुगच्छति सुतः, कान्ता च नालिङ्गते । अर्थप्रार्थनसंकया न कुरुतेऽप्यालपमात्रं सुहृत्, तस्माद्दव्यमुपार्जयाशु सुमते ! द्रव्येण सर्वे यशा: ” ॥ १ ॥ इत्येतादृशीं 'दशामनुभवाना अपि नरा: मानवाः त्वदनुग्रहात् तव प्रसादात् कलितेति - कोमलं मृदु यत् वाक्यं वचनं तत् कोमलवाक्यं तदेव सुधा तस्या उर्मयः तरङ्गः इति कोमलवाक्यसुधोर्मयः कलिताः सम्पादिताः तथोर्मयो यैस्ते कलितकोमलवाक्यसुधोर्मयः, तथा च चकितेतिकुंरङ्गो मृगविशेषः बालः शिशुः स चासौ बालकुरङ्गः चकितो विस्मितो बालकुरङ्गः चकितबालकुरङ्गः तस्य विलोचने इव विलोचने नेत्रे येषां ते चकितबालकुरङ्गविलोचना: दीर्घनयना इति शक्त्या, व्यञ्जनया तु - १०५ अनुभूतसिद्धसारस्वतस्तवः
SR No.002211
Book TitlePanch Stotrani
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy