Book Title: Panch Stotrani
Author(s): Dharmtilakvijay
Publisher: Smrutimandir Prakashan
________________
धवलपक्षविहङ्गमलाञ्छिते, जय सरस्वति पूरितवाञ्छिते ॥५॥ व्याख्या - विततेति - केतकः केतकीवृक्षम् तस्य पत्र - पर्णं केतकप्रत्रम् विततं-विस्तृतं यत् केतकपत्रं तत् विततकेतकपत्रम् तद्वत् विशाले विलोचने यस्याः सा तत्सम्बोधने विततकेतकपत्रविलोचने ! विहितेति - संसृतिः संसरन्ति देवनरतिर्यन्नरकगतौ पर्यटन्ते जीवा यत्र सा संसृतिः संसारः तद्भवं यत् दुष्कृतं पापं तत् संसृतिदुष्कृतम् ततो मोचनंमुक्तिः, विहितम् संपादितं संसृतिदुष्कृतमोचनं यया सा तत्सम्बुद्धौ विहितसंसृतिदुष्कृतमोचने ! धवलेति विहङ्गमः पक्षी धवलौ श्वेतौ पक्षौ पत्रौ यस्य स धवलपक्षः 'गरुत् पक्षच्छदाः पत्रम्' इत्यमरः स चासौ विहङ्गमः धवलपक्षविहङ्गमः, हंसः तेन लाञ्छितं अंकितं स्वरूपं यस्याः सा तदामन्त्रणे धवलपक्षविहङ्गमलाञ्छिते ! हंस- वाहने ! इति यावत्. पूरितं पूर्णीकृतं वाञ्छितं मनोऽभिलषितं लोकानां यया सा तत्सम्बोधने पूरितवाञ्छिते ! सरस्वति ! ब्राहिम ! त्वं जय सर्वोत्कर्षेण वर्तस्व । अन्तिमाक्षरद्वया - वृत्त्याऽत्र यमकालङ्कारः ॥ ५ ॥ भवदनुग्रहले शतरङ्गिता-स्तदुचितं प्रवदन्ति विपश्चितः । नृपसभासु यतः कमलाबला-कुचकलाललनानि वितन्वते ॥६॥ व्याख्या-भवदनुग्रहेति- विपश्चितः विद्वांसः 'विद्वान्
१०३ अनुभूत सिद्धसारस्वतस्तयः
Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140