Book Title: Panch Stotrani Author(s): Dharmtilakvijay Publisher: Smrutimandir PrakashanPage 96
________________ , तस्य आगम: सिद्धान्तः देवाधिदेवागमः सुधायाः अमृतस्य कुण्डं भाजनविशेष: सुधाकुण्डम्, लोके नवसुधाकुण्डानि प्रसिद्धानि अतः दशमं दशसङ्ख्यापूरं च तत् सुधाकुण्डम् दशमसुधाकुण्डम् देवाधिदेवागम एव दशमसुधाकुण्डमिति देवाधिदेवागमदशमसुधाकुण्डं तत्तथा यात्वा प्राप्य यस्मात् सर्वज्ञप्रणीतागमात् असमं- न विद्यते समः सदृशः यस्य स असमस्तं तथा, नानाभिधार्थामृतरसम् नाना विविधप्रकाशः अभिधार्था मुख्यार्थाः नानाभिधार्थाः त एव अमृतरस: नानाभिधार्थामृतरस: तं तथा पीत्वा आस्वाद्य अनेके बहवः जीवा जीवन्ति दशविधप्राणान् धारयन्तीति, जीवाः प्राणिन:, प्राज्यनिर्वाणपूर्याम् निर्वाणस्य मोक्षस्य पुरी नगरी निर्वाणपुरी प्राज्या. श्रेष्ठा सा चासौ निर्वाणपुरी, प्राज्य निर्वाणपुरी तस्यां तथा सकलदुःखविरहपूर्वकानन्तसुखमयस्थाने विधिवत् यथाविधि पुनः संसारे अपुनर्भवाय अमरतां मृत्युरहितत्वं जग्मुः अगच्छन् यान्ति गच्छन्ति यास्यन्ति गमिष्यन्ति च तत् पूर्वोक्तं अद्वितीयं दशमं सुधाकुण्डं पञ्चम्याः सौभाग्यपञ्चम्याः ज्ञानपञ्चम्या इति यावत् । तपसि ज्ञानपञ्चमीतपश्चर्यायाम् उद्यतविशदधियाम् ८१. पञ्चमी ·Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140