________________
,
तस्य आगम: सिद्धान्तः देवाधिदेवागमः सुधायाः अमृतस्य कुण्डं भाजनविशेष: सुधाकुण्डम्, लोके नवसुधाकुण्डानि प्रसिद्धानि अतः दशमं दशसङ्ख्यापूरं च तत् सुधाकुण्डम् दशमसुधाकुण्डम् देवाधिदेवागम एव दशमसुधाकुण्डमिति देवाधिदेवागमदशमसुधाकुण्डं तत्तथा यात्वा प्राप्य यस्मात् सर्वज्ञप्रणीतागमात् असमं- न विद्यते समः सदृशः यस्य स असमस्तं तथा, नानाभिधार्थामृतरसम् नाना विविधप्रकाशः अभिधार्था मुख्यार्थाः नानाभिधार्थाः त एव अमृतरस: नानाभिधार्थामृतरस: तं तथा पीत्वा आस्वाद्य अनेके बहवः जीवा जीवन्ति दशविधप्राणान् धारयन्तीति, जीवाः प्राणिन:, प्राज्यनिर्वाणपूर्याम् निर्वाणस्य मोक्षस्य पुरी नगरी निर्वाणपुरी प्राज्या. श्रेष्ठा सा चासौ निर्वाणपुरी, प्राज्य निर्वाणपुरी तस्यां तथा सकलदुःखविरहपूर्वकानन्तसुखमयस्थाने विधिवत् यथाविधि पुनः संसारे अपुनर्भवाय अमरतां मृत्युरहितत्वं जग्मुः अगच्छन् यान्ति गच्छन्ति यास्यन्ति गमिष्यन्ति च तत् पूर्वोक्तं अद्वितीयं दशमं सुधाकुण्डं पञ्चम्याः सौभाग्यपञ्चम्याः ज्ञानपञ्चम्या इति यावत् । तपसि ज्ञानपञ्चमीतपश्चर्यायाम् उद्यतविशदधियाम्
८१. पञ्चमी
·