________________
पुण्याब्धिप्रीतिदायी-चन्द्रपक्षे प्रीतिं हर्ष ददाति यच्छतीति प्रीतिदायी आनन्ददायकः पुण्यश्चासौ अब्धिश्च पुण्याब्धि: पवित्रसमुद्रः तस्मै पुण्याब्धये प्रीतिदायी पुण्याब्धिप्रीतिदायी, चन्द्रः खलु समुद्रं समुल्लासयतीति । पुण्यानामब्धिरिवेति पुण्याब्धि: तस्मै भविकजनाय प्रीतिदायी प्रीतिकरस्तथा, जिनौघ: भविकजनं सन्तोषतीत्यर्थः । (चन्द्रपक्षे) स्वीयगोभिः स्वीया: आत्मीया: गाव: किरणानि स्वीयगाव: ‘गोस्तत्पुरुषादट्' ७।३।१०५। इत्यनेन समासान्ताऽविधि: प्राप्त: किन्तु समासान्तविधिरनित्यः' इति न्यायात् नात्राट्, ताभिस्तथा स्वकिरणैरित्यर्थः, सान्द्राणि गाढानि तमांसि अन्धकाराणि ध्वंसमान: नाशयन् सन् स्वकिरणैः घनान्धकाराणि दूरीकृर्वन्नित्यर्थः, जिनौधपक्षे स्वीया: आत्मीया: गाव: वाण्य: ताभि: सान्द्राणि प्रबलानि तमांसि अज्ञानानि ध्वंसमानः समूलनाशं नाशयन् इत्यर्थः, सकलकुवलयोल्लासम् सकलानि समस्तानि तानि च तानि कुवलयानि कुमुदानि चन्द्रविकासिकुमुदानीति यावत्, सकलकुवलयानि तेषां य: उल्लास: विकसनं तं तथा उदिते चन्द्रे कुवलयानि विकाशित्वं प्राप्य उर्ध्वमुखीभवन्तीति woman
॥ पंच स्तोत्राणि ॥ ७८
ܝܚܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝ