SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तथा अयं जिनौघ: सज्जनान् सन्तोषयतीत्यर्थः । शिवतिलकसम: शिवस्य शंकरस्य । 'शिवोऽस्थिधन्वा पुरुषास्थिमाली । इति अभि. चिन्ता श्लो.१९७ ॥ मस्तके तिलकस्य तिलकेन वा समः सदृश: 'तुल्याङ्कस्तृतीयाषष्ठ्यौ' २।२।११६।। इत्यनेन तृतीयाषष्ठ्यौ आभूषणस्वरूपः, अथ च शिवस्य मोक्षस्य । 'शिवं तु मोक्षे क्षेमे सुखे जले' । इति अनेकार्थ: ५५०।। तिलकसम: अलंकाररुपः यथा शुक्लद्वितीयाया: चन्द्रमा: शंकरस्य मूर्ध्नि शोभते तथा जिनौघ: सिद्धशिलायां शोभते इत्यर्थः । कौशिकानन्दमूर्ति: आनन्दस्य हर्षस्य मूर्तिः आकार: आनन्दमूर्तिः । कौशिकाय घूकाय । कौशिक: शक्ररघूकयोः' इति -अनेकार्थ:३०॥ - उलूकायेति यावत् आनन्दमूर्ति: कौशिकानन्दमूर्तिः कौशिकाय इन्द्राय आनन्दमूर्तिः कौशिकानन्दमूर्तिः, उलूकः दिवा न पश्यति चन्द्रस्योदये एव पश्यति अत: चन्द्रस्य उलूकं प्रति आनन्दस्य कारणत्वम् । जिनौघं दृष्ट्वा इन्द्रः तुष्यति अत: जिनौघस्य इन्द्रं प्रति आनन्दस्य हेतुत्वमिति । ७७ पञ्चमी स्तुति
SR No.002211
Book TitlePanch Stotrani
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy