________________
ज्ञानं पुष्याद् जिनौधः स तपसि भविनां पश्चमीवासरस्य ॥२॥
अन्वयः य: (जिनौघ:) सितरुचि: इव सच्चकोरान् सम्प्रीणन् शिवतिलकसम: कौशिकानन्दमूर्तिः, पुण्याब्धिप्रीतिदायी, स्वीयगोभिः सान्द्राणि तमांसि ध्वंसमानः सकलकुवलयोल्लासं उच्चैः चकार, स जिनौध: भविनां पञ्चमीवासरस्य तपसि ज्ञान पुष्यात् ।
___ व्याख्या- य: जिनौघ: जिनवराणाम् समूह: सिता: श्वेता: रुचय: किरणानि ।
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीरवः ।
प्रग्रहशुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिप्रश्नयः ।। इति -
अभि-चिन्ता० श्लो. ९९ ।' यस्य स सितरुचि: चन्द्रमा: इव सच्चकोरान् सन्त: सज्जातीयाश्च ते चकोरा: ज्योत्स्नाप्रिया: इति सच्चकोरा: सन्त: सज्जना: चकोरा इवेति वा सच्चकोरा: तान् तथा । सम्प्रीणन् सम्प्रीणयन् अत्र संपूर्वात् 'प्रींग्श तृप्तिकान्त्योः' इति क्यादिधातोर्वर्तमानकृदन्ते प्रथमैकवचने रुपं ज्ञेयम् । अन्यथा चुरादिधातोस्तु सम्प्रीणयन् भवति । यथा चन्द्रः चकोरपक्षिण: आनन्दयति
maaaaaaaaaaaaaaaaaaa
॥ पंच स्तोत्राणि ॥ ७६