Book Title: Padmacharitam Part 02
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 367
________________ पंद्मपुराणम् । त्रिपञ्चाशत्तम पर्व। साधूपसर्गमथने द्वीपे दधिमुखाहये । गंधर्वकन्यकास्तिस्रः पद्मस्याभ्यनुमोदिताः ॥ २२३ ॥ विध्वंसं वज्रशालस्य चके वजमुखस्य च । कन्यामभिलपत्तस्य बहिरस्थापयदलम् ॥ २२४ ॥ भग्नं पुष्पनगोद्यानं तत्पाल्यः विह्वलीकृताः । बहवः किंकरा ध्वस्ताः प्रपादि च विनाशितम् ।। घटस्तनविमुक्तेन पुत्रस्नेहानिरंतरम् । पयसा पोषिताः स्त्रीभिर्वृक्षका ध्वसमाहृताः ॥ २२६ ॥ वृक्षर्वियोजिता वल्यस्तरलायितपल्लवाः । धरण्यां पतिता भान्ति विधवा इव योषिताः ॥२२७॥ फलपुष्पभरा नम्रा विविधास्तरुजातयः । श्मशानपादपच्छाया एतेन ध्वसिताः स्थिताः ॥२२८॥ अपराधानिमान् श्रुत्वा रावणः कोपमागतः । अबन्धयत्तमाहूय विनागं लोहशृंखलैः ॥ २२९ ॥ उपविष्टोकसंकाशो दशास्यः सिंहविष्टरे । पूजायोग्यं पुरा वातिमाक्रोशदिति निर्दयम् ॥२३०॥ उद्वृत्तोऽयमसौ पापः निरपेक्षत्रपोज्झितः । अधुनैतस्य का छाया धिगेतेनेक्षितेन किम् ॥२३१॥ व्यापादितेन किं दुष्टः कर्ता नानागसामयम् । कथं न गणितं पूर्व मम दाक्षिण्यमुन्नतम् ॥२३२।। ततस्तन्मंडलप्रान्तस्थिताः प्रवरविभ्रमाः । महाभाग्या विलासिन्यो नवयौवनपूजिताः ॥२३३॥ कोपस्मितसमायुक्ता निमीलितविलोचनाः। विधाय शिरसः कंपमेवमूचुरनादरात् ।। २३४ ॥ प्रसादाद्यस्य यातोऽसि प्रभुतां क्षितिमण्डले । पृथिव्यां विचरन्स्वेच्छं समस्तबलवर्जितः ॥२३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446