Book Title: Padmacharitam Part 02
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 431
________________ ४२२ पद्मपुराणम् । चतुःषष्टितमं पर्व । तेन मे पुरुषेन्द्रेण भरतेन महात्मना । जन्मान्तरमिदं दत्तं फलं यस्य त्वदीक्षणे ॥ ३१ ॥ अत्रान्तरे स संभ्रान्तः सुरूपो रघुनंदनः । प्रयच्छ भद्र जानासि तद्धोदकसंभवम् ॥ ३२ ॥ सोsवोचद्देव जानामि श्रूयतां वेदयामि ते । पृष्टो हि स मया राजा तेन चेति निवेदितम् ||३३|| यथा किल समस्तोऽयं देशः पुरसमन्वितः । अभिभूतो महारोगैरासीदप्रतिकारकैः ॥ ३४ ॥ उरोघातमहादाहज्वरलालापरिस्रवाः । सर्वशलारुचिच्छर्दिश्वयथुस्फोटकादयः ॥ ३५ ॥ क्रुद्धा इव परं तीव्राः सर्वे रोगास्तदाऽभवन् । यैरत्र विषये प्राणी नैकोऽप्यस्ति न पातितः ३६ केवलो द्रोणमेघाहः सामात्यपशुबांधवः । नृपो देव इवारोगः श्रुतो निजपुरे मया ॥ ३७ ॥ आह्वाय स मयाऽवाचि माम त्वं नीरुजो यथा । कालक्षेपविनिर्मुक्तं तथा मां कर्तुमर्हसि ॥ ३८ ॥ ततः सौरभसंरुद्धदुरदिग्वलयं जलम् । तेन सिक्तोऽहमानाद्य प्राप्तोल्लाघतां पराम् ॥ ३९ ॥ न केवलमहं तेन वारिणांतःपुरं मम । पुरं देशच संजातं सर्वरोगविवर्जितम् ॥ ४० ॥ कर्ता रोगसहस्राणां वायुरत्यन्तदुःसहः । प्रणष्टो वारिणा तेन मर्मसंभेदकोविदः ॥ ४१ ॥ मयैवं सततं पृष्टो मामेतदुदकं कुतः । येनाऽऽश्वर्यमिदं शीघ्रं कृतं रोगविनाशनम् ॥ ४२ ॥ सोऽवोचच्छूयतां राजन्नस्ति मे गुणशालिनी । विशल्या नाम दुहिता सर्वविज्ञानकोविदा ॥४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446