Book Title: Padmacharitam Part 02
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 438
________________ पद्मपुराणमें । ४२९ पंचषष्टितम पर्व । ततश्चिंतितमात्रेण ते ययुर्यत्र पार्थिवः । भरतः प्रवरः कीर्त्या प्रतापी गुणसंगतः ॥३॥ सुप्तस्योत्थाप्यमानस्य सहसास्यासुखासिका । मा भूदिति सुखं गीतं वैदेहादिभिराश्रितम् ॥४॥ ततः संगीतमाकर्ण्य दिव्यं श्रुतिमनोहरम् । शनैर्भावसमारूढमुत्तस्थौ कोशलेश्वरः ॥५॥ ज्ञापिताः सेवितद्वारास्ततस्तस्मै समागताः । वैदेह्या हरणं प्रोचुनिपातं लक्ष्मणस्य च ॥६॥ अथ शोकरसादुग्रात्क्षणमात्रभुवः परम् । राजा क्रोधरसं भेजे परमं भरतश्रुतिः ॥७॥ महाभेरीध्वनि चाशु रणनीतिमकारयत् । सकला येन साकेता संप्राप्ताऽऽकुलतां परम् ।। ८॥ लोको जगाद किं वेतद्वर्तते राजसद्मनि । महान् कलकलः शब्दः श्रूयतेऽत्यन्तभीषणः ॥९॥ किन्तु रात्रौ निशीथेऽस्मिन् काले दुष्टमतिः परः । अतिवीयसुतः प्राप्तो भवेदापातपंडितः ॥१०॥ कश्चिदंकगतां कान्तां त्यक्त्वा सन्नद्रुमुद्यतः । सन्नाहनिरेपक्षोऽन्यः सायके करमर्पयत् ॥११॥ मुग्धबालकमादाय काचिदंके मृगेक्षणा । हस्तं स्तनतटे न्यस्य चक्रे दिगवलोकनम् ।। १२ ॥ काचिदी|कृतं त्यक्त्वा निद्रारहितलोचना | सुप्तमाश्रयते कान्तं शयनीयैकपार्श्वगम् ॥ १३ ॥ पार्थिव प्रथमः कश्चिद्धनी कान्तामुदाहरन् । कान्ते बुद्धयस्व किं शेषे किमपीदमशोभनम् ॥१४॥ राजालये समुद्योतो लक्ष्यते जात्वलक्षितः । सन्नद्धा रथिनो मत्ता करिणोऽमी च संहिताः १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446