Book Title: Padmacharitam Part 02
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 442
________________ पद्मपुराणम् । ४३३ पंचषष्टितमं पर्व | अथवा नैव विज्ञेयमाश्चर्यमिदमीदृशम् । प्राप्यते येन निर्वाणं किमन्यत्तस्य दुष्करम् ॥ ५५ ॥ पराधीनक्रिया साऽहं तपसा निर्जिताऽनया । व्रजामि स्वं पदं साध्ये क्षम्यतां दुर्विचेष्टितम् ||५६ || एवं कृतसमालापां तत्त्वज्ञः शक्तिदेवताम् । विसृज्यावस्थितो वातिः स्वसैन्येऽद्भुतचेष्टितः ॥५७॥ सुता तु द्रोणमेघस्य हियालंकृतदेहिका । पादपद्मद्वयं पद्मं प्रणम्य विहितांजलिः ॥ ५८ ॥ विद्याधरमहामंत्रिवचोभिः कृतशंसना । वंदिता खेचरैरन्यैराशीभिरभिनंदिता ॥ ५९ ॥ शक्रस्येव शची पार्श्वे लक्ष्मणस्य सुलक्ष्मणा । अवस्थिता महाभाग्या सखीवचनकारिणी ॥ ६० ॥ मुग्धा मुग्धमृगीनेत्रा पूर्णचन्द्रनिभानना । महानुरागसंभारप्रेरितोदारमानसा ॥ ६१ ॥ परिष्वज्य रहो नाथं सुखसुप्तं महीतले । सुकुमारकरांभोजसंवाहनसुचारुणा || ६२ ॥ गोशीर्षचन्दनेनैवमन्वपित सर्वतः । तथा पद्ममपि व्रीडा किंचित्कंपितपाणिका ॥ ६३ ॥ शेषाः कन्या यथायोग्यं शेषाणां खेचरेशिनाम् । चंदनेनास्पृशद्गात्रं विशल्याहस्तसंगिना ॥ ६४ ॥ विशल्याहस्तसंस्पृष्टं चन्दनं पद्मवाक्यतः । कान्तमिन्द्रजितादीनामुपनीतं यथाक्रमम् ।। ६५ ।। शीतलं तं समाघ्राय कृत्वांगेषु च सादरम् । निर्वृतिं परमां प्राप्ताः शुद्धात्मानो गतज्वराः ॥ ६६ ॥ अन्ये च योधाः क्षतविक्षतांगा द्विपास्तुरंगाः पदकारिणश्च । २-२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446