Book Title: Padmacharitam Part 02
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 437
________________ पद्मपुराणम् । ४२८ पंचषष्टितमं पर्व। इति ध्यात्वा पुरेऽमुस्मिन् सदेशे क्रोधपूरितः । प्रावर्त्तयदसौ वायुं नानारोगसमावहम् ॥११०॥ सोऽयं भीतो विशल्याया वारिणा प्रलयं क्षणात् । भवंति हि बलीयांसो बलिनामपि विष्टपे १११ यथा सत्त्वहितेनेदं भरताय निवेदितम् । भरतेनापि मे तद्वन्मया ते पद्म वेदितम् ॥ ११२ ॥ अभिषेकजलं तस्या तदा नेतुमतित्वरम् । यत्नं कुरुत नास्त्यन्या गतिर्लक्ष्मणजीविते ॥ ११३ ॥ इति स्थितानामपि मृत्युमार्गे जनैरशेषैरपि निश्चितानाम् । __ महात्मनां पुण्यफलोदयेन भवंत्युपायो विहितोऽसुदायी ॥ ११४ ॥ अहो महान्तः परमा जनास्ते येषां महापत्तिसमागतानाम् । ___ जनो वदत्युद्भवनाभ्युपायं वः समस्तत्वनिवेदनेन ॥ ११५ ॥ इत्याचे श्रीरविषेणाचार्यप्रोक्त पद्मपुराणे विशल्यापूर्वभवाभिधानं नाम चतुःषष्टितम पर्व ।। ६४ ॥ अथ पंचषष्टितमं पर्व। . प्रतीन्दोर्वचनं श्रुत्वा राघवोऽत्यन्तसंमदः । समं विद्याधराधीशैर्विस्मितस्तमपूजयत् ॥ १॥ अंजनाजविदेहाजसुताराजास्ततः कृताः । अयोध्यां गमिनः कृत्वा सन्मंत्रं निश्चितं द्रुतम् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446