Book Title: Padmacharitam Part 02
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 400
________________ पद्मपुराणम् । ३९१ एकोनषष्टितम पर्व । इंधकः पल्लवश्चैव तत्रैकोदरसंभवौ । पुत्रादरपरिक्लिष्टौ विद्वौ लांगलकर्मकौ ॥ ७ ॥ सानुकंपो स्वभावेन साधुनिन्दापराङ्मुखौ । जैनमित्रपरिवंगाद्भिक्षादानादिसेविनौ ॥८॥ द्वितीयं निस्वयुगलं प्रतिवेश्मोषितं तयोः । स्वभावनिदेयं क्रूरं लौकिकोन्मार्गमोहितम् ॥ ९ ॥ बंधने राजदानस्य संजाते कलहे सति । ताभ्यामत्यन्तरौद्राभ्यां हताविधकपल्लचौ ॥ १० ॥ साधुदानाद्धरिक्षेत्रे जातौ सद्भोगभोजिनौ । पल्यद्वयक्षये जातौ देवलोकनिवेशिनौ ॥ ११ ॥ अधर्मपरिणामेण क्रूरौ तु प्राप्तपंचतौ । शशौ काले जरारण्ये जातौ दुःखातिसंकटे ॥ १२ ॥ मिथ्यादर्शनयुक्तानां साधुनिन्दनकारिणाम् । प्राणिनां पापकूटानां भवत्येवेदृशी गतिः ॥१३॥ ततस्तियक्षु सुचिरं भ्रांत्वा विविधयोनिषु । कृच्छ्रान्मनुष्यतां प्राप्तौ तापसत्वमुपागतौ ॥ १४ ॥ बृहज्जटौ वृहत्कायौ फलपर्णादिभोजिनौ । तपोभिः कर्शितौ तीनैः कुज्ञाने द्वौ मृतौ च तौ ॥१५॥ क्रमादरिंजये जातावश्विन्याः कुक्षिसंभवौ । पुत्रौ बह्रिकुमारस्य विजयार्द्धस्य दक्षिणे ॥ १६ ॥ आशुकारासुराकाराविमौ जगति विश्रुतौ । हस्तप्रहस्तनामानौ सचिवौ रक्षसां विभोः ॥ १७ ॥ पूर्वी तु प्रच्युतौ नाकात्सुमनुष्यत्वमागतौ । गृहाश्रमे तपः कृत्वा पुनर्जातौ सुरोत्तमौ ॥ १८ ॥ पुण्यक्षयात्परिभ्रष्टौ स्वर्गादिधकपल्लवौ । किष्कुसंज्ञे पुरे जातो नलनीलौ महाबलौ ॥ १९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446