Book Title: Padmacharitam Part 02
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 398
________________ पद्मपुराणम्। अष्टपञ्चाशत्तमं पर्व। पुनरन्यै टैः शीघ्रमसीदन्तः समुज्वलाः । रक्षोयोधान्विनिर्जघ्नुर्भासुरा वानरध्वजाः ॥ ३८ ॥ भेद्यमानं बलं दृष्ट्वा राक्षसेन्द्रस्य सर्वतः । स्वामिरागसमाकृष्टौ महाबलसमावृतौ ॥ ३९ ॥ गजध्वजसमालक्ष्यौ गजस्यंदनवर्तिनौ । माभैष्टेति कृतस्वानौ परमोत्कटविग्रहौ ॥ ४० ॥ हस्तप्रहस्तसामंतावुत्थाय सुमहाजवौ । निन्यतुः परमं भंगं बलं वानरलक्ष्मणम् ॥ ४१ ॥ शाखामृगध्वजौ तावत्प्रतापं विभ्रतो परम् । कोडवारणसंवृत्तवाहव्यूढमहारथौ ॥ ४२ ॥ शौर्यगर्वाविवायुक्तशरीरौ परमद्युती । नलनीलौ परिक्रुद्धौ भीषणौ योद्धुमुद्यतौ ॥ ४३ ॥ ततो बहुविधैः शस्त्रैश्चिरं जाते महाहवे । क्रमाप्तसाधुनिस्वाने निपतद्भटसंकटे ॥ ४४ ॥ नलेनोत्पत्य हस्तो वा विहलो विरथीकृतः । प्रहस्त इव नीलेन कृतश्च गतजीवितः ॥ ४५ ॥ तावालोक्य ततो राजन् विपर्यस्तौ महीतले । विनायका बभूवैतद्वाहिनीयं परान्मुखा ॥४६ ॥ विभर्ति तावदृढनिश्चयं जनः प्रभोर्मुखं पश्यति यावदुनतम् । गतैर्विनाशं स्वपतो विशीर्यते यथारचक्रं परिशीर्णतुम्बकम् ॥ ४७॥ सुनिश्चतानामपि सन्नराणां विना प्रधानेन न कार्ययोगः । शिरस्यपेते हि शरीरबन्धः प्रपद्यते सर्वत एव नाशम् ॥ ४८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446