Book Title: Padmacharitam Part 02
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 407
________________ पद्मपुराणम् । • पर्वः । दृष्ट्रा तमुतं वीरं ज्वलंतंरणतेजसा । सुषेणादीनिमे प्रापुः साधारयितुमाकुलाः ॥ ५६ ॥ इंद्ररश्मिर्जयस्कन्दश्चन्द्राभो रतिवर्द्धनः । अंगोऽगदोऽथ संमेदः कुमुदः शशिमण्डलः ॥ ५७ ॥ बलिश्रंडतरंगश्च सारो रत्नजटी जयः । वेलाक्षेपी वसन्तश्च तथा कोलाहलादयः ॥ ५८ ॥ ततस्ते बहुलत्वेन प्रवीराः पद्मपक्षिणः | लग्ना महाहवं कर्तुं शत्रूणामतिदुःसहम् ॥ ५९ ॥ क्रुद्धेन कुंभकर्णेन ततस्ते रणकारिणः । विद्यया स्वापिताः सर्वे दर्शनावरणी यथा ॥ ६० ॥ निद्राघूर्णितनेत्राणां तेषां शस्त्रावसंगिनाम् । करेभ्यः सायकाः पेतुः शिथिलेभ्यः समंततः ।। ६.१ ।। निद्राविद्राणसंग्रामानेतानव्यक्तचेतनान् । दृष्ट्राऽचत सुग्रीवो विद्यां द्राक्प्रतिबोधिनीम् ॥ ६२ ॥ प्रतिबुद्धास्तया तेऽथ सुतरां जाततेजसा । हनूमदादयो योद्धुं प्रवृत्ताः संकुलं परम् ॥ ६३ ॥ शाखा केसरिचिह्नानां बलमत्यर्थपुष्कलं । छत्रासिपत्रसंकीर्ण मच्छिन्नरणलालसं ॥ ६४ ॥ स्पर्द्धमानं समालोक्य क्षुब्धसागरसन्निभम् । अवस्थां च स वाहिन्याः परिप्राप्तामसुन्दरीम् ६५ उत्सहे रावणो योद्धुं प्रणम्य च तमिन्द्रजित् । कृतांजलिरिदं वाक्यमभाषत महाद्युतिः ॥ ६६ ॥ तात तात न ते युक्तं संप्राप्तं मयि तिष्ठति । निष्फलत्वं हि मे जन्म सत्येवं प्रतिपद्यते ॥ ६७ ॥ नखच्छेद्ये तृणे किं वा परशो रुचिता गतिः । ततो भव सुविधः करोम्येष तवेप्सितम् || ६८ ॥ Jain Education International ३९८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446