Book Title: Padmacharitam Part 02
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 428
________________ पद्मपुराणम्। चतुःषष्टितम पर्व। यावन्तः केचिदन्ये तु समरादनिवर्तिनः । ते स्थिता दक्षिणामाशां व्याप्य वानरकेतवः ॥३८॥ एवं प्रयत्नाः कृतयोग्यरक्षाः संदेहिनो लक्ष्मणजीवयोगे। सविस्मयाः सोरुशुचः समानाः स्थिताः समस्ता गगनायनेशाः ।। ३९ ।। न तन्नरा नो ययवो न नागा न चापि देवा विनिवारयन्ति । यदात्मना संजनितस्य लभ्य-फलं नृणां कर्मरवेः प्रकाशम् ॥ ४० ॥ इत्यार्षे श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे शक्तिभेदरामविलापाभिधानं नाम त्रिषष्टितमं पर्व ॥ ६३ ॥ अथ चतुःषष्टितमं पर्व। नियतं मरणं ज्ञात्वा लक्ष्मणस्य दशाननः । पुत्रभ्रातृवधं बुद्धौ चकारात्यन्त दुःखितः ॥१॥ हा भ्रातः परमोदार ममात्यन्तहितोद्यतः । कथमेतामवाप्नोसि बंधावस्थामसंगताम् ॥२॥ हा पुत्रौ सुमहावीर्यों भुजाविव दृढौ मम । विधेनियोगतः प्राप्तौ भवतौ बंधनं नवम् ॥ ३॥ किं करिष्यति वः शत्रुरित्याकुलितमानसः । न वेनि दुरितात्माहं विरसं वा करिष्यति ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446