Book Title: Padarth Prakash 27 Navkar Stava
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 43 परिवर्ताङ्कानयने द्वितीयतृतीयौ प्रकारौ पुव्वगणभंगसंखा, अहवा उत्तरगणंमि परिवट्टो / निय 2 संखा, निय 2 गणअंतंकेण भत्तव्वा // 10 // व्याख्या - अथवाशब्दः प्रकारान्तरेण पूर्वगणस्य या भङ्गसङ्ख्या ‘एगस्स एगभंगो' इत्यादिका सैवोत्तरगणे परिवर्तस्तत्तुल्य इत्यर्थः / तथाहि - एककरूपस्य पूर्वगणस्य या भङ्गसङ्ख्या एकरूपा, सैवोत्तरगणे द्विकरूपे परिवर्त्तः / तथा द्विकगणस्य भङ्गसङ्ख्या द्विकरूपा, उत्तरगणे त्रिकरूपे परिवर्तोऽपि द्वयरूपः / तथा त्रिकगणे भङ्गाः षट्, ततश्चतुर्थगणे परिवर्तोऽपि षट्करूपः / तथा चतुर्थगणे भङ्गाः 24, पञ्चमगणे परिवर्तोऽपि 24 रूपः / एवमग्रतोऽपि ज्ञेयम् / अथोत्तरार्द्धन परिवर्त्तानयने तृतीयं प्रकारमाह, 'निय 2' इति / अथवा निज 2 गणस्य भङ्गसङ्ख्या निजनिजेन गणस्यान्त्याङ्केन भक्ता परिवर्त्तः स्यात् / तथाहि - एककगणस्य सङ्ख्या भङ्गसङ्ख्यैकरूपा साऽन्त्याङ्केनात्रैककरूपेण भक्ता लब्ध एकोऽयमाद्यपङ्क्तौ परिवर्त्तः / तथा द्विकगणे भङ्गसङ्ख्या द्वयरूपा सा द्विकगणस्यान्त्याङ्केन द्विकरूपेण भक्ता लब्ध एकोऽत्रापि परिवर्तो एक एव / तथा त्रिकगणे भङ्गसङ्ख्या षट्स्वरूपा, सा त्रिकगणस्यान्त्याङ्केन त्रिकरूपेण भक्ता लब्धौ द्वौ त्रिकगणे परिवर्त्तः / तथा चतुर्थगणे भङ्गसङ्ख्या 24 रूपा, सान्त्याङ्केन चतुष्करूपेण भक्ता लब्धाः षट्, अत्रायं परिवर्त्तः / एवमग्रतोऽपि ज्ञेयम् // 10 // अथैतानेव परिवर्त्तान् पूर्वानुपूर्व्या गाथाबन्धेनाह -
Loading... Page Navigation 1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130