Book Title: Padarth Prakash 27 Navkar Stava
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 46 नष्टानयनकरणम् इगसेसे सेसंका, ठाविज्ज कमेण सुन्न / सेसंमि लद्धं कुरु, इगहीणं उक्कमओ ठवसु सेसंके // 16 // ॥जुम्मं // व्याख्या - नष्टाङ्को नष्टस्वरूपस्य सङ्ख्याङ्कः सोऽन्त्यादिभिः परिवर्ताकैर्भज्यते यल्लभ्यते तदङ्कसङ्ख्या अन्त्यादयोऽङ्का गता ज्ञेयाः / कोऽर्थः ? नष्टरूपतः पूर्वं तावत्सङ्ख्या अन्त्यादयोऽङ्कास्तस्यां पङ्क्तौ परिवर्ताङ्कसङ्ख्यवारान् स्थित्वा तत उत्थिता इत्यर्थः / ततस्तेभ्यः पश्चानुपूर्व्या यदग्रेतनमङ्करूपं तन्नष्टं ज्ञेयम् / कोऽर्थः ? तन्नष्टकथने तत्र 2 पङ्क्तौ लेख्यमित्यर्थः / एवं क्रियमाणे यद्येकः शेषः स्यात्तदा शेषरूपाणि लिखितरूपादवशिष्टानि क्रमेण स्थाप्यानि प्रथमादिपङ्क्तिषु लेख्यानीत्यर्थः / तथा यदि शून्यं शेषं स्यात्तदा लब्धाङ्क एकेन हीनः कार्यः / ततः एकहीनलब्धाङ्कसङ्ख्या अन्त्यादयोऽङ्कास्तस्यां पङ्क्तौ गता ज्ञेयाः, पूर्वस्थापिता सम्प्रति उत्थिता इत्यर्थः / तेभ्यः पश्चानुपूर्व्याऽग्रेतनं नष्टं रूपं ज्ञेयं इति प्राग्वत्, लिखितनष्टरूपेभ्यः शेषाऽङ्काः प्रथमादिपङ्क्तिषु उत्क्रमेण लेख्याः / अत्र पञ्चपदीमाश्रित्योदाहरणं यथा त्रिंशत्तमं रूपम् नष्टं तत्कीदृशम् ? इति केनापि पृष्टम् / ततोऽत्र त्रिंशदन्त्यपरिवर्तेन चतुर्विंशतिरूपेण भज्यते / लब्ध एकः शेषाः षट् / ततोऽत्र पञ्चमपङ्क्तौ पञ्चकरूपमेकं रूपं गतं, कोऽर्थः चतुर्विंशतिवारान् स्थित्वा सम्प्रति पङ्क्तिउत्थितमित्यर्थः / तस्माच्च पश्चानुपूर्व्याऽग्रेतनं चतुष्कं रूपं नष्टं ज्ञेयं सम्प्रति परिवर्त्तते इत्यर्थः / अतश्चतुष्को नष्टस्थाने पञ्चमपङ्क्तौ स्थाप्यः / तथा शेषषट्कस्य चतुर्थपङ्क्तिसत्केन षट्कपरिवर्तेन भागे लब्ध एकः शेषस्थाने शून्यम् ततो लब्धं एकहीनं क्रियते / जातं लब्धस्थानेऽपि शून्यम् /
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130