Book Title: Padarth Prakash 27 Navkar Stava
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ आनुपूर्वीभङ्गगुणनमाहात्म्यम् एवं ज्येष्ठमङ्कमादौ दत्त्वाऽधस्तनकोष्ठेभ्यो गणनेऽपीयमेव सङ्ख्या / यथाऽन्त्यपङ्क्तौ दृष्ट एकः / सर्वज्येष्ठं तं आदौ दत्त्वा गणने एकाक्रान्ते कोष्ठे लब्धा 96 / चतुर्थपङ्क्तौ पूर्वं स्थितत्वेन ज्येष्ठमेककं मुक्त्वा द्विकं ज्येष्ठं आदौ दत्त्वा प्राग्वद् गणने द्विकाक्रान्तकोष्ठे लब्धाः 18 / एवं तृतीयपङ्क्तौ पूर्वस्थितावेकद्विको मुक्त्वा त्रिकमादौ दत्त्वा गणने तदाक्रान्तकोष्ठे लब्धाः 4 / द्वितीयपङ्क्तावेकद्विकत्रिकान् ज्येष्ठानपि पूर्वं स्थितत्वेन मुक्त्वा शेषं ज्येष्ठं चतुष्कमादौ दत्त्वा गणने लब्धः एकः / एवमाद्यपङ्क्तौ पञ्चकाक्रान्तस्थाने लब्ध एकः / सर्वमीलने जातं 120 / ___ अथ तृतीयमुदाहरणं 12345 अयं कतिथः ? इति पृष्टे, सर्वलघु पञ्चकमादौ दत्त्वोपरितनकोष्ठकाद् गणने पञ्चकाक्रान्तस्थाने लब्धं शून्यम् / एवं चतुर्थपङ्क्तौ पञ्चकं पूर्वस्थितं मुक्त्वा चतुष्कमादौ दत्त्वा गणने चतुष्काक्रान्तस्थाने लब्धं शून्यम् / तृतीयायां प्रोक्तरीत्या त्रिकमादौ दत्त्वा गणने लब्धं शून्यम् / एवं द्वितीयायामपि / आद्यपङ्क्तौ शेषमेककमादौ दत्त्वा गणने एकाक्रान्तकोष्ठे लब्ध एकः / ततः प्रथमोऽयं भङ्गः / एवमधस्तनकोष्ठकाद् गणने यथा ज्येष्ठमेककमादौ दत्त्वाऽधस्तनकोष्ठकाद् गणनेऽन्त्यपङ्क्तौ पञ्चकाक्रान्तकोष्ठे चतुर्थपङ्क्तौ चतुष्काक्रान्तकोष्ठे तृतीयपङ्क्तौ त्रिकाक्रान्तकोष्ठे, द्वितीयपङ्क्तौ द्विकाक्रान्ते च कोष्ठे लब्धानि शून्यानि / आद्यपङ्क्तौ लब्ध एकः / ततः प्रथमोऽयं भङ्गः / एवं सर्वत्र ज्ञेयम् / / 25 / / अत्रानुपूर्वीभङ्गगुणनमाहात्म्यमाह - इअ अणुपुव्विप्पमुहे, भंगे सम्मं विआणिउं जो उ। भावेण गुणइ निच्चं, सो सिद्धिसुहाई पावेइ // 26 //
Loading... Page Navigation 1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130