SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आनुपूर्वीभङ्गगुणनमाहात्म्यम् एवं ज्येष्ठमङ्कमादौ दत्त्वाऽधस्तनकोष्ठेभ्यो गणनेऽपीयमेव सङ्ख्या / यथाऽन्त्यपङ्क्तौ दृष्ट एकः / सर्वज्येष्ठं तं आदौ दत्त्वा गणने एकाक्रान्ते कोष्ठे लब्धा 96 / चतुर्थपङ्क्तौ पूर्वं स्थितत्वेन ज्येष्ठमेककं मुक्त्वा द्विकं ज्येष्ठं आदौ दत्त्वा प्राग्वद् गणने द्विकाक्रान्तकोष्ठे लब्धाः 18 / एवं तृतीयपङ्क्तौ पूर्वस्थितावेकद्विको मुक्त्वा त्रिकमादौ दत्त्वा गणने तदाक्रान्तकोष्ठे लब्धाः 4 / द्वितीयपङ्क्तावेकद्विकत्रिकान् ज्येष्ठानपि पूर्वं स्थितत्वेन मुक्त्वा शेषं ज्येष्ठं चतुष्कमादौ दत्त्वा गणने लब्धः एकः / एवमाद्यपङ्क्तौ पञ्चकाक्रान्तस्थाने लब्ध एकः / सर्वमीलने जातं 120 / ___ अथ तृतीयमुदाहरणं 12345 अयं कतिथः ? इति पृष्टे, सर्वलघु पञ्चकमादौ दत्त्वोपरितनकोष्ठकाद् गणने पञ्चकाक्रान्तस्थाने लब्धं शून्यम् / एवं चतुर्थपङ्क्तौ पञ्चकं पूर्वस्थितं मुक्त्वा चतुष्कमादौ दत्त्वा गणने चतुष्काक्रान्तस्थाने लब्धं शून्यम् / तृतीयायां प्रोक्तरीत्या त्रिकमादौ दत्त्वा गणने लब्धं शून्यम् / एवं द्वितीयायामपि / आद्यपङ्क्तौ शेषमेककमादौ दत्त्वा गणने एकाक्रान्तकोष्ठे लब्ध एकः / ततः प्रथमोऽयं भङ्गः / एवमधस्तनकोष्ठकाद् गणने यथा ज्येष्ठमेककमादौ दत्त्वाऽधस्तनकोष्ठकाद् गणनेऽन्त्यपङ्क्तौ पञ्चकाक्रान्तकोष्ठे चतुर्थपङ्क्तौ चतुष्काक्रान्तकोष्ठे तृतीयपङ्क्तौ त्रिकाक्रान्तकोष्ठे, द्वितीयपङ्क्तौ द्विकाक्रान्ते च कोष्ठे लब्धानि शून्यानि / आद्यपङ्क्तौ लब्ध एकः / ततः प्रथमोऽयं भङ्गः / एवं सर्वत्र ज्ञेयम् / / 25 / / अत्रानुपूर्वीभङ्गगुणनमाहात्म्यमाह - इअ अणुपुव्विप्पमुहे, भंगे सम्मं विआणिउं जो उ। भावेण गुणइ निच्चं, सो सिद्धिसुहाई पावेइ // 26 //
SR No.032796
Book TitlePadarth Prakash 27 Navkar Stava
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2018
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy