________________ कोष्ठकप्रकारेणोद्दिष्टकरणम् त्यक्त्वा लघु त्रिकमादौ दत्त्वा गणने द्विकाक्रान्तकोष्ठे लब्ध एककः / आद्यपङ्क्तौ दृष्टस्त्रिकः / ततः प्राग्वत् पञ्चकचतुष्कौ लघू अपि त्यक्त्वा लघु त्रिकमादौ दत्त्वा गणने द्विकाक्रान्तकोष्ठे लब्ध एककः / सर्वलब्धाङ्कमीलने जाता 20 / ततोऽयं विंशतितमो भङ्गः / __ ज्येष्ठं ज्येष्ठमङ्कमादौ कृत्वाऽधस्तनकोष्ठकाद् गणनेऽपीयमेव सङ्ख्या / यथा पञ्चमपङ्क्तौ दृष्टः पञ्चकः / ततः सर्वज्येष्ठमेककमादौ कृत्वाऽधस्तनकोष्ठकाद् गणने पञ्चकाक्रान्तकोष्ठके लब्धं शून्यम् / चतुर्थपङ्क्तौ दृष्ट एककः / तं ज्येष्ठत्वादादौ दत्त्वाऽधस्तनकोष्ठकाद् गणने लब्धा एककाक्रान्तकोष्ठकेऽष्टादश / तृतीयपङ्क्तौ दृष्टश्चतुष्कः / सर्वज्येष्ठमप्येककं पूर्वस्थितत्वेन मुक्त्वा ज्येष्ठं द्विकमादौ दत्त्वाऽधस्तनकोष्ठकाद् गणने चतुष्काक्रान्तकोष्ठके लब्धं शून्यम् / द्वितीयपङ्क्तौ दृष्टो द्विकोऽत्रापि प्रोक्तरीत्या ज्येष्ठमेककं मुक्त्वा द्विकं ज्येष्ठमादौ दत्त्वा गणने द्विकाक्रान्तकोष्ठे लब्धः एकः / आद्यपङ्क्तौ ज्येष्ठौ एककद्विको मुक्त्वा त्रिकं ज्येष्ठमादौ दत्त्वा गणने त्रिकाक्रान्तकोष्ठे लब्ध एकः / लब्धाङ्कमीलने जाता विंशतिः / द्वितीयमुदाहरणं यथा 54321, अयं कतिथ: ? इति पृष्टे, अन्त्यपङ्क्तौ दृष्ट एकः / सर्वलघु पञ्चकमादौ दत्त्वोपरितनकोष्ठकाद् गणने एकाक्रान्तकोष्ठे लब्धा षण्णवतिः / चतुर्थपङ्क्तौ दृष्टो द्विकः / प्राग्वद् गणने द्विकाक्रान्तकोष्ठे लब्धा अष्टादश / तृतीयपङ्क्तौ दृष्टस्रिकः, प्राग्वद्गणने त्रिकाक्रान्तकोष्ठे लब्धाश्चत्वारः / द्वितीयपङ्क्तौ दृष्टश्चतुष्कः / प्राग्वद् गणने चतुष्काक्रान्तस्थाने लब्ध एकः / आद्यपङ्क्तौ दृष्टः पञ्चकः, प्राग्वद् गणने पञ्चकाक्रान्तकोष्ठे लब्ध एकः / सर्वलब्धमीलने जातं विंशत्युत्तरशतम् / ततो विंशत्युत्तरशतसङ्ख्योऽयं भङ्ग इति वाच्यम् /