SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 55 कोष्ठकप्रकारेणोद्दिष्टकरणम् शून्यके स्थितः पञ्चकः एव नष्टस्थाने ले ख्यः / तृतीयपङ्क्तौ सर्वज्येष्ठमेककमादौ कृत्वाऽधस्तनकोष्ठकाद् गणनेऽक्षाक्रान्तस्थाने स्थित एककः / ततः स एव तत्र नष्टो लेख्यः / द्वितीयपङ्क्तौ प्राग्वत् ज्येष्ठमप्येककं पूर्वं स्थापितत्वात् टालयित्वा शेषं ज्येष्ठं द्विकं आदिं कृत्वा गणनेऽक्षाक्रान्तस्थाने स्थितो द्विकः / स एव तत्र लेख्यः / आद्यपतौ सर्वज्येष्ठौ एककद्विको पूर्वं स्थापितत्वेन त्यक्त्वा ज्येष्ठं त्रिकमादिं कृत्वा गणने कोष्ठकाक्रान्तस्थाने स्थितस्त्रिकः / स एवाद्यपङ्क्तौ नष्टो ज्ञेयः / इति जातो त्रिंशत्तमो भङ्गः 32154 // 24 / / अथोद्दिष्टकरणमाह - उद्दिट्टभंग-अंक-प्पमाणकोटेसु संति जे अंका। उद्दिट्ठभंगसंखा, मिलिएहि तेहिं कायव्वा // 25 // व्याख्या - उद्दिष्टो यो भङ्गस्तस्य येऽङ्का नमस्कारपदाभिज्ञानरूपा एक द्वित्रिचतुरादिकास्तत्प्रमाणास्तत्सङ्ख्यास्तावतिथा इत्यर्थः / ये कोष्ठास्तेषु येऽङ्काः-परिवर्ताङ्कास्सन्ति, तैस्सर्वैरकत्रमीलितैरुद्दिष्टभङ्गस्य सङ्ख्या स्यात् / उदाहरणं यथा 32415 अयं कतिथो भङ्गः ? इति पृष्टं केनचित् / अत्र पञ्चमपङ्क्तौ दृष्टः पञ्चकः / सर्वलघु पञ्चकमादौ दत्त्वोपरितनकोष्ठकाद् गणने शून्यकोष्ठे स्थितः पञ्चकस्ततोऽत्र न किञ्चिल्लभ्यते / चतुर्थपङ्क्तौ दृष्ट एककः / पूर्वं पञ्चमपङ्क्तौ स्थितं पञ्चकं लघु क्रमागतमपि त्यक्त्वा चतुष्कं लघुमादौ दत्त्वा गणने एकाक्रान्तकोष्ठकसत्का लब्धाः 18 / तृतीयपङ्क्तौ दृष्टश्चतुष्कः / प्राग्वत् पञ्चकं त्यक्त्वा लघु चतुष्कमादौ दत्त्वा गणने चतुष्काक्रान्तकोष्ठकसत्कं लब्धं शून्यम् / द्वितीयपङ्क्तौ दृष्टो द्विकः / ततः प्रोक्तरीत्या पञ्चकचतुष्कौ लघू अपि
SR No.032796
Book TitlePadarth Prakash 27 Navkar Stava
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2018
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy