________________ 54 कोष्ठकप्रकारेण नष्टानयनम् स्तावतिथं नष्टं रूपमित्यर्थः / शेषास्वक्षानाक्रान्तपङ्क्तिषु शून्यकोष्ठकसङ्ख्यातुल्यानि नष्टरूपाणि लेख्यानि / उदाहरणं यथा त्रिंशत्तमो भङ्गो नष्टः सः कीदृशः ? इति केनाऽपि पृष्टम् / ततः पञ्चपदकोष्ठकयन्त्रके पञ्चमपङ्क्तिस्थ 24 तृतीयपङ्क्तिस्थः 4 द्वितीयपङ्क्तिस्थ 1 अङ्कर्जाता 29 मूलपङ्क्तिस्थ 1 युतत्वेन 30 नष्टभङ्गस्य सङ्ख्या / ततोऽभिज्ञानार्थमेतेषु कोष्ठकेष्वक्षाः क्षिप्ताः / ततः पञ्चमपङ्क्तौ सर्वलघु पञ्चकमादिं कृत्वा पश्चानुपूर्व्या पञ्चमः चतुर्थ इत्यादिगणनेऽक्षाक्रान्तकोष्ठके स्थितश्चतुष्कः / ततः पञ्चमपङ्क्तौ नष्टस्थाने चतुष्को लेख्यः / चतुर्थपङ्क्तिरक्षैर्नाक्रान्ताऽतः सर्वलघुपञ्चकमादिं कृत्वा गणने शून्यकोष्ठङ्के स्थितः पञ्चकः एव चतुर्थपङ्क्तौ नष्टस्थाने लेख्यः / तथा तृतीयपङ्क्तौ पञ्चकचतुष्कौ लघू अपि पूर्वं स्थापितत्वेन मुक्त्वा शेषं त्रिकमेव लघुमादिं कृत्वा गणनेऽक्षाक्रान्तकोष्ठके स्थित एककोऽतः स एव तृतीयपङ्क्तौ नष्टस्थाने स्थाप्यः / तथा द्वितीयपङ्क्तौ प्राग्वत् पञ्चकचतुष्कौ पूर्वस्थितौ विमुच्य लघु त्रिकमादिं कृत्वा गणनेऽक्षाक्रान्तकोष्ठके स्थितो द्विकः / स एव द्वितीयपङ्क्तौ नष्टस्थाने स्थाप्यः / आद्यपङ्क्तौ प्राग्वत् पञ्चकचतुष्को पूर्वं स्थितौ विमुच्य लघु त्रिकमादिं कृत्वा गणने कोष्ठकाक्रान्तस्थाने स्थितस्रिकः / स एवाद्यपङ्क्तौ नष्टो ज्ञेयः / इति जातो त्रिंशत्तमो भङ्गः 32154 / एवं ज्येष्ठज्येष्ठमङ्कमादिं कृत्वाऽधस्तनकोष्ठकाद् गणनेऽपीदृशमेवेदं नष्टरूपमायाति / यथान्त्यपङ्क्तौ सर्वज्येष्ठमेककमादौ कृत्वाऽधस्तनकोष्ठकाद् गणनेऽक्षाक्रान्तस्थाने स्थितश्चतुष्कः / ततः स एव तत्र नष्टो लेख्यः / चतुर्थपङ्क्तौ पूर्वं पञ्चमपङ्क्तिस्थापितं चतुष्कं टालयित्वाऽधस्तनकोष्ठकाद् सर्वज्येष्ठमेकमादिं कृत्वा गणनेऽक्षाक्रान्तत्वाभावात्