Book Title: Padarth Prakash 27 Navkar Stava
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 76
________________ 55 कोष्ठकप्रकारेणोद्दिष्टकरणम् शून्यके स्थितः पञ्चकः एव नष्टस्थाने ले ख्यः / तृतीयपङ्क्तौ सर्वज्येष्ठमेककमादौ कृत्वाऽधस्तनकोष्ठकाद् गणनेऽक्षाक्रान्तस्थाने स्थित एककः / ततः स एव तत्र नष्टो लेख्यः / द्वितीयपङ्क्तौ प्राग्वत् ज्येष्ठमप्येककं पूर्वं स्थापितत्वात् टालयित्वा शेषं ज्येष्ठं द्विकं आदिं कृत्वा गणनेऽक्षाक्रान्तस्थाने स्थितो द्विकः / स एव तत्र लेख्यः / आद्यपतौ सर्वज्येष्ठौ एककद्विको पूर्वं स्थापितत्वेन त्यक्त्वा ज्येष्ठं त्रिकमादिं कृत्वा गणने कोष्ठकाक्रान्तस्थाने स्थितस्त्रिकः / स एवाद्यपङ्क्तौ नष्टो ज्ञेयः / इति जातो त्रिंशत्तमो भङ्गः 32154 // 24 / / अथोद्दिष्टकरणमाह - उद्दिट्टभंग-अंक-प्पमाणकोटेसु संति जे अंका। उद्दिट्ठभंगसंखा, मिलिएहि तेहिं कायव्वा // 25 // व्याख्या - उद्दिष्टो यो भङ्गस्तस्य येऽङ्का नमस्कारपदाभिज्ञानरूपा एक द्वित्रिचतुरादिकास्तत्प्रमाणास्तत्सङ्ख्यास्तावतिथा इत्यर्थः / ये कोष्ठास्तेषु येऽङ्काः-परिवर्ताङ्कास्सन्ति, तैस्सर्वैरकत्रमीलितैरुद्दिष्टभङ्गस्य सङ्ख्या स्यात् / उदाहरणं यथा 32415 अयं कतिथो भङ्गः ? इति पृष्टं केनचित् / अत्र पञ्चमपङ्क्तौ दृष्टः पञ्चकः / सर्वलघु पञ्चकमादौ दत्त्वोपरितनकोष्ठकाद् गणने शून्यकोष्ठे स्थितः पञ्चकस्ततोऽत्र न किञ्चिल्लभ्यते / चतुर्थपङ्क्तौ दृष्ट एककः / पूर्वं पञ्चमपङ्क्तौ स्थितं पञ्चकं लघु क्रमागतमपि त्यक्त्वा चतुष्कं लघुमादौ दत्त्वा गणने एकाक्रान्तकोष्ठकसत्का लब्धाः 18 / तृतीयपङ्क्तौ दृष्टश्चतुष्कः / प्राग्वत् पञ्चकं त्यक्त्वा लघु चतुष्कमादौ दत्त्वा गणने चतुष्काक्रान्तकोष्ठकसत्कं लब्धं शून्यम् / द्वितीयपङ्क्तौ दृष्टो द्विकः / ततः प्रोक्तरीत्या पञ्चकचतुष्कौ लघू अपि

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130