________________ 46 नष्टानयनकरणम् इगसेसे सेसंका, ठाविज्ज कमेण सुन्न / सेसंमि लद्धं कुरु, इगहीणं उक्कमओ ठवसु सेसंके // 16 // ॥जुम्मं // व्याख्या - नष्टाङ्को नष्टस्वरूपस्य सङ्ख्याङ्कः सोऽन्त्यादिभिः परिवर्ताकैर्भज्यते यल्लभ्यते तदङ्कसङ्ख्या अन्त्यादयोऽङ्का गता ज्ञेयाः / कोऽर्थः ? नष्टरूपतः पूर्वं तावत्सङ्ख्या अन्त्यादयोऽङ्कास्तस्यां पङ्क्तौ परिवर्ताङ्कसङ्ख्यवारान् स्थित्वा तत उत्थिता इत्यर्थः / ततस्तेभ्यः पश्चानुपूर्व्या यदग्रेतनमङ्करूपं तन्नष्टं ज्ञेयम् / कोऽर्थः ? तन्नष्टकथने तत्र 2 पङ्क्तौ लेख्यमित्यर्थः / एवं क्रियमाणे यद्येकः शेषः स्यात्तदा शेषरूपाणि लिखितरूपादवशिष्टानि क्रमेण स्थाप्यानि प्रथमादिपङ्क्तिषु लेख्यानीत्यर्थः / तथा यदि शून्यं शेषं स्यात्तदा लब्धाङ्क एकेन हीनः कार्यः / ततः एकहीनलब्धाङ्कसङ्ख्या अन्त्यादयोऽङ्कास्तस्यां पङ्क्तौ गता ज्ञेयाः, पूर्वस्थापिता सम्प्रति उत्थिता इत्यर्थः / तेभ्यः पश्चानुपूर्व्याऽग्रेतनं नष्टं रूपं ज्ञेयं इति प्राग्वत्, लिखितनष्टरूपेभ्यः शेषाऽङ्काः प्रथमादिपङ्क्तिषु उत्क्रमेण लेख्याः / अत्र पञ्चपदीमाश्रित्योदाहरणं यथा त्रिंशत्तमं रूपम् नष्टं तत्कीदृशम् ? इति केनापि पृष्टम् / ततोऽत्र त्रिंशदन्त्यपरिवर्तेन चतुर्विंशतिरूपेण भज्यते / लब्ध एकः शेषाः षट् / ततोऽत्र पञ्चमपङ्क्तौ पञ्चकरूपमेकं रूपं गतं, कोऽर्थः चतुर्विंशतिवारान् स्थित्वा सम्प्रति पङ्क्तिउत्थितमित्यर्थः / तस्माच्च पश्चानुपूर्व्याऽग्रेतनं चतुष्कं रूपं नष्टं ज्ञेयं सम्प्रति परिवर्त्तते इत्यर्थः / अतश्चतुष्को नष्टस्थाने पञ्चमपङ्क्तौ स्थाप्यः / तथा शेषषट्कस्य चतुर्थपङ्क्तिसत्केन षट्कपरिवर्तेन भागे लब्ध एकः शेषस्थाने शून्यम् ततो लब्धं एकहीनं क्रियते / जातं लब्धस्थानेऽपि शून्यम् /