________________ 47 नष्टानयनोदाहरणानि ततश्चतुर्थपङ्क्तावेकमपि रूपं गतं नास्ति / ततोऽन्त्यमेव पदं पञ्चकरूपं नष्टं ज्ञेयम् / शेषाऽङ्का एकद्विकत्रिका उत्क्रमेण स्थाप्याः, यथा 32154 / इदं त्रिशत्तमं रूपं ज्ञेयम् / / अथ द्वितीयमुदाहरणं यथा चतुर्विंशतितमं रूपं नष्टं तत्कीदृशम् ? इति पृष्टे चतुर्विशतेरन्त्यपरिवर्तेन 24 रूपेण भागे लब्ध एकः शेषस्थाने शून्यम् / ततः पूर्वोक्तयुक्त्या शून्यशेषत्वात् लब्धमेकहीनं क्रियते / जातं लब्धस्थानेऽपि शून्यम् / ततः पञ्चमपङ्क्तावद्याप्येकमपि रूपं गतं नास्ति ततोऽन्त्य एव पञ्चकरूपोऽङ्कः स्थाप्यः / शेषा अङ्का एकद्विकत्रिकचतुष्का उत्क्रमात् स्थाप्याः यथा 43215 / इदं चतुविंशतितमं रूपम् / तृतीयमुदाहरणं यथा सप्तनवतितमं रूपं नष्टम् / ततः सप्तनवतेरन्त्यपरिवर्तेन 24 रूपेण भागे लब्धाश्चत्वारः शेष एक: अतः पञ्चमपङ्क्तावन्त्यादयश्चत्वारोऽङ्का गता ज्ञेयाः / तेभ्योऽग्रेतन एकको नष्टस्थाने लेख्यः एकशेषत्वात् शेषा अङ्का क्रमाल्लेख्याः, यथा 23451 / इदं सप्तनवतितमं रूपम् / . अथ चतुर्थमुदाहरणं यथा पञ्चाशत्तमं रूपं नष्टम् / ततः पञ्चाशतोऽन्त्यपरिवर्तेन 24 रूपेण भागे लब्धौ द्वौ ततोऽन्त्यपङ्क्तावन्त्यादाराभ्य द्वावको गतौ तदग्रेतनस्रिको नष्टस्थाने लेख्यः / तथा शेषस्य द्विकस्य चतुर्थपङ्क्तिपरिवर्तेन षट्करूपेण भागे किमपि न लभ्यते / ततोऽत्र चतुर्थपङ्क्तौ एकमपि रूपं गतं नास्ति / अतोऽन्त्यपञ्चक एव नष्टस्थाने लेख्यः / ततः तृतीयपङ्क्तौ शेषस्य द्विकस्य परिवर्तेन द्वयरूपेण भागे लब्ध एकः शेषं शून्यम् / ततो लब्धमेकहीनं क्रियते जातं लब्धस्थानेऽपि शून्यम् / अतस्तृतीयपङ्क्तावेकमपि रूपं गतं नास्ति / ततः पञ्चकस्य चतुर्थपङ्क्तौ स्थापितत्वेन पुनः स्थापने समयभेदः