________________ 4 नष्टानयनोदाहरणानि स्यादिति तं मुक्त्वाऽन्त्योङ्कश्चतुष्क एव स्थाप्यः / शेषौ 21 रूपावुत्क्रमेण स्थाप्यौ, यथा 21453 / इदं पञ्चाशत्तमं रूपम् / पञ्चममुदाहरणं यथा पञ्चषष्टितमं रूपं नष्टम् / ततः पञ्चषष्टेरन्त्यपरिवर्तेन 24 रूपेण भागे लब्धौ द्वौ / ततः पञ्चकचतुष्करूपौ द्वौ अङ्कौ गतौ / ताभ्यामग्रेतनस्त्रिको नष्टस्थाने लेख्यः / शेषाणां सप्तदशानां चतुर्थपङ्क्तिपरिवर्तेन भागे लब्धौ द्वौ / ततः पञ्चकचतुष्करूपावङ्कौ गतौ तदग्रेतनस्रिकश्च स्थाप्यते तदा समयभेद स्यादिति तं मुक्त्वा द्विकः स्थाप्यः / शेषाणां तृतीयपङ्क्तिपरिवर्तेन भागे लब्धौ द्वौ शेषः एकः अत्रापि पञ्चकचतुष्कौ द्वौ गतौ तदग्रेतनयोस्रिकद्विकयोः स्थापने समयभेद इति तौ त्यक्त्वा एककः स्थाप्यः / एकशेषत्वात् शेषौ द्वौ अङ्कौ क्रमेण स्थाप्यौ यथा 45123 / इदं पञ्चषष्टितमं रूपम् / षष्ठमुदाहरणं यथा सप्तमं रूपं नष्टम् / तत्र सप्तानामन्त्यपरिवर्तेन चतुर्विंशत्या भागो नाप्यते / ततोऽत्रैकमपि रूपं गतं नास्ति इति पञ्चक एव स्थाप्यः / अथ सप्तानां चतुर्थपङ्क्तिपरिवर्तेन षट्करूपेण भागे लब्धः एक शेषश्चैकः / ततः एकोऽन्त्योऽङ्कोऽत्र गतः 'नट्ठट्टिविहाणे'त्यादिवक्ष्यमाणगाथया वज्जितत्वात् पञ्चमपङ्क्तिस्थितः पञ्चको गतमध्ये न गण्यतेऽन्त्याङ्कोऽत्र चतुष्करूप एव गतः तदग्रेतनस्त्रिकश्च नष्टस्थाने लेख्यः एकशेषत्वात् शेषाः अङ्काः क्रमेण लेख्याः / यथा 12435 / अथ सप्तममुदाहरणं तत्र एकचत्वारिंशत्तमं रूपं नष्टम् / एकचत्वारिंशतोऽन्त्यपरिवर्तेन भागे लब्ध एकः / ततः एकोऽन्त्योऽङ्कः पञ्चको गतः / तदग्रेतनचतुष्को नष्टस्थाने लेख्यः / ततश्चतुर्थपङ्क्तिपरिवर्तेन 6 रूपेण शेषसप्तदशानां भागे लब्धौ द्वौ 'नट्ठद्दिढे'त्यादिगाथया